भारतदेशोऽयं सम्पूर्णवैश्विकक्षेत्रे बृहत्तमलोकतान्त्रिकव्यवस्थः, अस्य देशस्य लोकतान्त्रिकसिद्धान्तानां सङ्ग्रहभूतः सर्वोपरिमान्यश्च ग्रन्थोऽयं संविधाननाम्ना प्रथितः I संविधानमित्युक्ते न्यायक्षेत्रे मूलसिद्धान्तानां सङ्ग्रहः, यदाश्रित्य देशे व्यवस्थाः प्रचाल्यन्ते I “संविधानम्” इत्यत्र “सम्” उपसर्गपूर्वकस्य “वि” पूर्वकस्य “डु धाञ् धारणपोषणयोः” इति धातोः “ल्युट्” प्रत्यये “संविधानम्” इति शब्दस्य व्युपत्तिः जायते I संविधीयते अनेन इत्यर्थे एवं श्ब्दो व्युत्पद्यते I “संविधान” इत्यस्य सम्यग्रीत्या विहितमित्यर्थः, अथवा क्रमेण संरचना, अथवा उपायः इत्यपि अर्थः व्याख्यातुं शक्यते I एवं, संविधानं भारते न्यायव्यवस्थायाः परमं प्रमाणम् I
संविधाननिर्माणपूर्वपीठिका
सर्वैर्ज्ञातमेव यत् पूर्वम् आङ्ग्लानां प्रशासनेन देशस्य सञ्चालनं क्रियते स्म, परं १९४७ वर्षे, स्वातन्त्र्यप्राप्तौ अपि परिवर्तनन्यायव्यवस्थायाः स्थापना कृता, ततः परं यदा १९५० वर्षे संविधानस्य अङ्गीकारः संसदि सञ्जातः, ततः परमेव वस्तुतः भारतस्य स्वतन्त्रतया प्रचालनमारब्धम् I १९३५ मध्ये आङ्ग्लैः कृत “भारतसर्वकारनियमः”, स्वतन्त्रतया संविधानस्य निर्माणस्य बीजभूतमासीत् I ततः भारतस्य स्वतन्त्रतासेनान्यः पूर्वमेव लोकतान्त्रिकव्यवस्थास्थापनाय दत्तचित्ताः आसन् I पश्चात् आङ्ग्लप्रशासनेनैवे भारत्स्य स्वतन्त्रसंविधानस्य आवश्यकताङ्गीकृता, तथा च १९४२ वर्षे सर्वथा स्वतन्त्रतायाः कृते प्रयत्नवतां च स्वतन्त्रतासेनान्यां चेतसि मुख्यतया संविधानस्य निर्माणे तीव्रेच्छा सम्भूता, तदनुगुणं च १९४६ वर्षे एव भारतसंविधाननिर्माणसमितेः घटनं जातम् I तथा चान्ते १९४७ वर्षानन्तरमेव १९५० वर्षे जानुअरि मासस्य २६ तिथौ संविधानस्य सफलतया अभ्युपगमः पूर्णः, यदाश्रित्यैव प्रतिवर्षं गणतन्त्रोत्सवस्याचरणं प्रतिगृहं सहर्षोल्लासं भवति I इत्थं सारांशेन संविधाननिर्माणपूर्वपीठिका निगदिता I
१९२८ वर्षे सर्वप्रथमं भारतसंविधानस्य मूलरूपत्वेन जवहरलालनेहरोः नेतृत्वे संरचितः सर्वराजनैतिकदलानुमतः एकः लेखविशेषः यत्र भारतस्य प्रभुत्वार्थं नूतनसंघीयराष्ट्रनिर्माणार्थं च सङ्कल्पभूतनियमान् दधौ, तत्र च विशेषेण निर्वाचनविषये, तत्र च अल्पसङ्ख्यकानां कृते आरक्षणस्यापि विषये चर्चा कृता I अस्य मूलमासीत् यदा १९१९ वर्षस्य भारतसर्वकारनियमे आङ्ग्लप्रशासनेन भारतीयजनाः मार्गप्रदर्शकत्वेन नान्तर्भाविताः, तदा १९२७ वर्षे “अन्ने बसन्ती” महोदया गणितभारतीयैर्युता अनधिकारिकसंविधाननिर्माणं चक्रे, यस्य च कानपुरे सर्वराजनीतिदलैरनुमतिः प्रदत्ता, तच्च १९२७ वर्षस्य आङ्ग्लसर्वकारेण तिरस्कृतम्, उक्तं च, यदि शक्यं, तर्हि भारतीयैः आङ्ग्लैः सह प्रायः सहमत्या संविधाननिर्माणं कार्यमिति I एतच्छ्रुत्वा स्वतन्त्रतासेनानीभिः तत्काले रचितभारतीयसंविधानस्य अनुमत्यप्रदाने, असहकारिविरोधप्रदर्शनस्य निश्चयश्च कृतः I एतद्वोरोधेन मोहम्मद अलि जिन्नाः सर्वमुसलमानदलसहितः जिन्नाचतुर्दशनियमान् मुसलमानपक्षे आविष्चकार I
संविधानस्य निर्माणम्
फ्रांसदेशनियमानुसारं १९४६ वर्षे ६ डिसेम्बर मासे संविधानसमितेः निर्माणं जातम् I ९ डिसेम्बर मध्ये संसद्भवनस्य मध्यकक्षायां प्रथमसम्मेलनं जातम् I तस्य प्रथमसम्बोधकः आचार्यकृपालिनीवर्यः, प्रासङ्गिकसभाध्यक्षत्वेन च सचिदानन्दसिन्हा महोदयः कार्यनिर्वहणं कारितः I ११ डिसेम्बर १९४६ मध्ये अस्य मुख्याध्यक्षत्वेन राजेन्द्रप्रसादवर्याः, उपाध्यक्षत्वेन हरेन्द्रमुखर्जी महोदयाः, सांविधानिकन्यायोपदेशकत्वेन ब.न. राउ वर्याश्च नियुक्ताः I १३ डिसेम्बर मासे ज्वहरलालनेहरुणा संविधानस्य मूलभूतसिद्धान्तानां सङ्ग्रहरूपः उद्देश्यप्रस्तावः प्रस्तुतः, यः गच्छता कालेन संविधानप्रस्तावनात्वं भेजे I २२ जानुअरि १९४७ मध्ये उद्देश्यप्रस्तावः सर्वसहमत्या स्वीकृतः, तथा भारतीयध्वजस्य च स्वीकारोऽभूत् I १५ अगस्त मासे १९४७ वर्षे भारतस्य स्वतन्त्रानन्तरं भारतस्य विभाजनानन्तरं च अगस्तमासस्यैव २९ दिनाङ्के ब.आर. अम्बेड्करस्य नेतृत्वे षड्जनानां समितेः सङ्गठनं जातम् I ते च षट् पारिषदाः – क.म. मुंशी महोदयाः, मुहम्मद सदुअल्लाः, अल्लडि कृष्णस्वामि अय्यर महाभागाः, गोपालस्वामि ऐय्यङ्गार महाभागाः तथा देवीप्रसाद खैतान महाभागाः, ब.ल. मिट्टरः च I २६ नवम्बर १९४९ मध्ये सभायां संविधानस्य स्वीकृतिर्जाता, तथा च अन्ते, २४ जानुअरि १९५० मध्ये संविधानविषये अन्तिमं सम्मेलनमभवत्, यत्र ३९५ नियमलेख - २२ भाग - ८ विस्तृतलेखमण्डितं संविधानं हस्ताक्षरितं सदस्यैः I एवं च २६ जानुअरि १९५० दिनाङ्के, भारतस्य संविधानस्य नियोगः कृतः देशसञ्चालने, अतश्च ततः प्रभृति, २६ जानुअरि गणतत्न्त्रोत्सवरूपेण जनैः सहर्षोल्लासं आचर्यते I एवं, संविधाननिर्माणार्थं द्वौ संवत्सरौ, एकादशमासाः तथा अष्टादशाहानि अपेक्षितानि, व्ययश्च चतुष्षष्टिरूप्यकाणां, ग.व मालवकारमहोदयाः लोकसभायाः प्रथमाध्यक्षत्वेन च चिताः, एवं च जातो लोकतान्त्रिकगणतान्त्रिकदेशो भारतः I
संविधानस्य निर्माणप्रक्रिया
संविधानस्य प्रारूपं तावत् ब.न. राउ महाभागैः संरचितं, तच्च अम्बेड्करनेतृत्ववन्निरीक्षणसमित्या परिष्कृत्य प्रकाशितम् I भारतसंविधाननिर्माणपूर्वं ब.न. राउ महाभागैः बुर्मादेशस्य संविधाननिर्माणे महत्त्वपूर्णसहयोगः दत्तः, तथा च यदा भारतसंविधाननिर्माणार्थम् उपदेशकत्वेन नियुक्तः, तदा तैः अमरीका, कनाडा, आइर्लाण्ड तथा यू.के. इति देशानां सुदीर्घयात्राभिः तत्तत्संविधानां सविस्तरमध्ययनं प्रचक्रे I तत्र अमरीकादेशस्य सर्वोच्चन्यायालयन्यायाधीशः (ड्यू प्रोसेस्स) इति दलनिवेशस्य निषेधं सयुक्तिकमुपपादयामास, यतः तेन न्यायव्यवस्थायामनावश्यकः भारः स्यात् I प्रत्यागतैरध्ययनानुगुणं निर्मिते संविधानप्रारूपे २४३ नियमलेखाः तथा १३ विस्तृतलेखाः सङ्कलिताः, याः परं अम्बेड्करादीनां समीक्षणसमितिषु बहुशो वादविचारानन्तरं ३९५ नियमलेखैः ८ विस्तृतलेखैश्चोपबृंहितः ग्रन्थः निर्मितः प्रकाशितश्च I संविधानस्य प्रकाशनात्प्राक् ११ सम्मेलनानि १६५ दिनेषु कृतानि I नवम्बरमासस्य २६ दिनाङ्के यदा संविधानस्य अभ्युपगमो जातः, तदहः साभिमानं प्रतिवर्षं श्रीनरेन्द्रमोदीमहाभागानां मार्गनिर्देशानुसारं २०१५ वर्षानन्तरं “संविधानदिवसः” इति नाम्ना भारतीयप्रजाभिराचर्यते I अस्याः समितेः अन्तिमसम्मेलने यत् २४ जानुअरि १९५० वर्षे आसीत्, सर्वैरपि २८४ सदस्यैः एकस्मिन् संविधानप्रतिनिधौ आङ्ग्लभाषायाम् अपरस्मिन् च प्रतिनिधौ हिन्दीभाषायां हस्ताक्षराः दत्ताः I संविधानस्य मूलः प्रतिनिधिः वङ्गदेशात् शान्तिनिकेतनात् आगतैः “राममनोहर सिन्हा” तथा “नन्दलाल बोस” प्रमुखैः कलाकारैः प्रतिपुटमलङ्कृतः I अस्य सुन्दरलिपिकरणं प्रेम बहैर नरैन रैज़ादा इत्याख्येन कृतमस्ति I अस्य मूलप्रतिनिधेः प्रकाशनं देहरादुन क्षेत्रे कृतं तथा चास्य भास्मलेखनं (फोटोलितोग्रफि) भारतसर्वेक्षणविभागेन कृतम् I संविधाननियोगानन्तरं च मूलसंविधाने शताधिकपरिष्काराः कृताः सन्ति I
संविधानस्य भागाः
मूलतः, ३९५ नियमलेखाः ८ विस्तृतलेखाश्च आसन्, परमद्यतनभारतीयसंविधाने ४६७ नियमलेखाः, २२ भागाः तथा १२ विस्तृतलेखाः च सन्ति I प्रायः तत्र के के विषयाः अन्तर्भाविताः इति सिम्हावलोकनं कुर्मः I
भागः १ | लेखाः १ – ४ | अस्मिन् भागे भारतस्य विविधराष्ट्रसमूहत्वेन लक्षणं, राष्ट्राणां निर्माणस्य सीमापरिवर्तनस्य च प्रावधानं दीयते| |
भागः २ | लेखाः ५ – ११
| संविधाने नागरिकताविषये नियमाः, तथा च संसदि नागरिकतानियमेषु परिवर्तनस्य च प्रावधानं दीयते| |
भागः ३ | लेखाः १२ – ३५
| अत्र मौलिकाधिकाराणां विस्तृतचर्चा कृता वर्तते I न्यायस्य पुरतः सर्वेषां समानता, अभिव्यक्तेः स्वतन्त्रता, विभिन्नधर्माणां स्वतन्त्रता, विद्याप्रप्तेरधिकाराः, इत्यदिविषयाः अत्र चर्चिताः I |
भागः ४ | लेखाः ३६ – ५१
| अत्र राष्ट्रनीतेः चर्चाः उद्धृताः, यथा सामाजिकन्यायहितादिविषयाणां चर्चाः कृताः सन्ति I |
भागः ४ अ | लेखः ५१.अ
| राष्ट्रं प्रति मौलिककर्तव्याः अत्र सङ्गृहीताः I |
भागः ५ | लेखाः ५२ – १५१
| राष्ट्रपतेः, उपराष्ट्रपतेः, मन्त्रिमण्डलस्य, संसदः, सर्वोचन्यायालयास्य, नियन्त्रकमहालेखापरीक्षकयोः च विषये नियमाः उल्लिखिताः I |
भागः ६ | लेखाः १५२ - २३७ | राज्यपालस्य, विधायकानाम्, उच्चन्यायालयानां च विषये चर्चा I |
भागः ७
|
| पार्ट बी राज्यानां कृते नियमाः I
|
भागः ८ | लेखाः २३९ – २४२
| केन्द्रप्रशासितक्षेत्राणां नियमाः, देहल्याः पुदुच्चेरी क्षेत्रस्य च कृते विशेषप्रावधानानि I |
भागः ९ भागः ९ अ भागः ९ ब | लेखाः २४३ – २४३ ओ लेखाः २४३ पी – २४३ ज़ेड जी लेखाः २४३ ज़ेड एच – २४३ ज़ेड टि
| पञ्चायतविषये I नागरपालिकोपरि नियमाः I सहकारिसमितीनां विषये चर्चा ९७ परिष्कारेण अन्तर्भाविता I |
भागः १० | लेखाः २४४ – २४४ अ | अनुसूचितक्षेत्राणां जनजातीयक्षेत्राणां च प्रशासननियमाः I |
भागः ११ | लेखाः २४५ – २६३
| केन्द्रप्रशासितक्षेत्राणां राज्यानां च परस्परसम्बन्धविषये I |
भागः १२ | लेखाः २६४ – ३०० अ | अर्थव्यवस्था, करविभागः, सम्पत्तिः इत्यदीनां नियमाः I |
भागः १३ | लेखाः ३०१ -३०७ | व्यापारस्य वाणिज्यस्य च नियमाः I |
भागः १४ भागः १४ अ | लेखाः ३०८ – ३२३ लेखाः ३२३ अ – ३२३ ब | केन्द्रीयसेवासम्बद्धविचाराः न्यायादिकरणविषये नियमाः |
भागः १५ | लेखाः ३२४ – ३२९ अ | निर्वाचननियमाः |
भागः १६ | लेखाः ३३० – ३४२ | जातिविशेषादिभ्यः, आङ्ग्लभारतीयादीनां कृते च विशेषप्रावधानानि लिखितानि |
भागः १७ | लेखाः ३४३ - ३५१ | राजकीयभाषाणां निर्णयः |
भागः १८ | लेखाः ३५२ – ३६० | आपत्कालीनप्रावधानानि |
भागः १९ | लेखाः ३६१ – ३६७ | अन्यनियमाः |
भागः २० | लेखः ३६८ | संविधाने परिष्कारस्य कृते नियमाः |
भागः २१ | लेखाः ३६९ – ३९२
| जम्मू-कश्मीरक्षेत्रे विशेषप्रावधानानि यत्र परिष्काराः अधुना कृताः |
भागः २२ | लेखाः ३९३ – ३९५ | उद्धरणानि जी एस टि विषये नियमाः अत्र उल्लिखिताः |
केचन मुख्यपरिष्काराः
यद्यपि संविधाने १०६ परिष्काराः जाताः तथा सर्वेषामपि प्रमुखो हेतुः स्यात्, तथापि विशिष्य वयम ५ – ६ परिष्काराणां केवलं सिम्हावलोकनं कुर्मः I
प्रथमपरिष्कारे एव अभिव्यक्तिस्वतन्त्रतायां कानिचन नियन्त्रणानि नेहरुसर्वकारेण स्थापितानि, कारणमासीत् यत् तत्कालीनप्रधानमन्त्री विरोधिनां निरङ्कुशाभिव्यक्त्या, देशविभाजनेन अभिवर्धमानेन सामुदायिकवाक्यैश्च चिन्तितः, अतः समाजे विरोधजनकवक्तव्यस्य, अथवा हिंसाजनकवक्तव्यादीनां कृते निषेधः स्थापितः, तथा च भूमिपतित्वोत्सादननियमाः समथिताःI
सप्तमपरिष्कारः भारते राष्ट्राणां सीमानिर्धारणे तथा पूर्वतनचतुर्विधवर्गीकरणनिष्कारणे च मुख्यतां भजते I एतेन महाराष्ट्रगुजरातराज्ययोः विभाजनं च अनुमतम्, राज्यसभायां नव्यसदस्यानां प्रवेशसम्भवत्वं च कारितं, १५३ लेखे एकः राज्यपालः एकस्मै राज्याय इति नियमे राष्ट्रपतिना एकस्य द्व्यधिकराज्येष्वपि समकाले एव राज्यपालत्वेन नियोगस्यापि प्रावधानं कृतम् I प्रतिराज्याच्च विधानसभायां प्रतिनिधित्वसङ्ख्यायां लघुराज्यहिते सङ्ख्यापरिवर्तनमपि कृतम् I
चतुर्विंशतिपरिष्कारे संविधाने यत्र कुत्रापि नियमानुसारं परिष्कारस्य प्रावधानानि दत्तानि I
द्विचतुर्विंशत्परिष्कारोऽयं आपत्कालीननियमनियोगसमये तत्कालीनप्रधानमन्त्रि – इन्दिरा - गान्धिना असंवैधानिकरीत्या भारतसंविधानप्रस्तावनायां “सामाजवादि” “धर्मनिरपेक्ष” इति द्वौ पदौ निवेशितौ, तथा च न्यायालयादिसंस्थाभ्यः अधिकाधिकाराः संसदे प्रदत्ताः तत्कालीनापत्कलीननियमलब्धशक्त्यनुरूपम् I पूर्वतननिर्वाचनवादविवादाः अनेन परिष्कारेण अयुक्तरीत्या चोपशमं नीताः I
षडशीतिपरिष्कारे ६ – १४ वर्षेभ्यः बालकेभ्यः विद्याप्राप्तिः मौलिकाधिकारत्वेन निर्दिष्टः, पूर्वतनलेखे तु ६ वर्षपर्यन्तं बालानां शिक्षणमुल्लिखितमासीत्, अत्र मुख्यतया एतदपि परिष्कृतं यत् ६ – १४ वर्षबालानां पित्रोः रक्षकस्य वा अयं मौलिककर्तव्यः यत् बालाः तद्वयसि सुयोग्यां शिक्षां प्राप्नुयुः इति I
एकाधिकशततमपरिष्कारः जी एस टी इति करविशेषस्य प्रस्तावकः आसीत्, यत्र बहवः अप्रत्यक्षकराः एकस्मिन् एव करे अन्तर्भाविताः, अनेन करव्यवस्थायाः शृङ्खलाप्रभावः अल्पीकृतः, तथा च एकत्ववद्भारतापणव्यवस्था स्थापिता I उभेऽपि सभे जी एस् टी विषये निर्णेतुमधिकारं प्रदत्ते I
षडधिकशततमपरिष्कारे नारीणां कृते लोकसभायामेकः त्रयांशः आरक्षितः I अयं परिष्कारः बहुपूर्वकाले एव आरब्धः, २००८ वर्षे च राज्यसभायां बहुमतं प्राप्य लोकसभायां नाग्रे सर्तुमशकत् I अधुना २०२३ वर्षे नारीशक्त्यभियानरूपेण सभायां सफलतया बहुमतं प्राप्तं, परम् अस्य नियोगस्तु अग्रिमजनगणनानन्तरमेव भविष्यति I
समाप्तिः
इत्थं च प्रजाहिते स्वसर्वस्वं त्यक्तवतां महाराजानां पुण्यभूमौ भारतवर्षे प्रजाहिताय निर्मितेऽस्मिन् जगतो बृहत्तमे संविधाने यद्यपि बहूनां देशानां संविधानस्य सिद्धान्ताः सर्वतश्चितमध्विव भ्रमरैः स्वकोशे अन्तर्भाविताः, स्वविशदेतिहासस्य गरिमा न न्यूनीकृतः, परं रक्षितः I यद्यपि सन्ति बहवः परिवर्तनीयाः अंशाः संविधाने, क्रमेण च क्रियते एव तनुकूलं कार्यं, तथापि तत्र दोषदृष्टिरुपदातुं न शक्या, यतोऽन्ते सर्वे अल्पज्ञत्वावच्छिन्नमानवाः एव I तथापि एतादृशबृहत्तमसुन्दरतमजगत्प्रशंसनीयसंविधानस्य निर्मातृभ्यो वयं साभिमानं कृतज्ञतां प्रशास्महे I


