Saturday, 14 February 2026

ज्योतिर्लिङ्गानि- महाशिवरात्रि पर्व:

सौराष्ट्रे सोमनाथञ्च श्रीशैले मल्लिकार्जुनम् | उज्जयिन्यां महाकालमोंकारममलेश्ववरम् ||

परैल्यां वैद्यनाथञ्च डाकिन्यां भीमशङ्करम् | सेतुबंधे तु रामेशं नागेशं दारुकावने ||

वाराणस्यां तु विश्वेशं ब्रह्मकं गौतमीतटे | हिमालये तु केदारं गृष्णेशं तु  शिवालये ||


यत्र निवासाय कामना देवानां, खनिः प्रार्थत्यक्तजीवितानां महात्मनां, जन्मभूमिविविधविद्यार्वेदशास्त्राणां, शेवधिः सहृदयहृदयाह्लादिसाहित्यनिधीनां, कोशः कविकलाकल्लोलिनीकमलकाव्यरत्नानां, ललाम ललितकलाविलासानां, मूलभूमिः समग्रेतिहासाणाम्, मन्दिरो वन्दनालयमन्दाराणाम, ज्योतिर्जगत्तिमिरस्य, आत्मा सनातनस्य, इत्थं विख्यतविभवायां भारतभूमौ ज्योतिरूर्जास्थलेषु पृथ्व्याः १२ ज्योतिर्लिङ्गानि  विराजन्ते I पुरा हरिब्रह्मणोः स्पर्धाशान्त्यर्थं स्वीकृतानन्तज्योतिस्स्वरूपो महादेवोऽत्र विकीर्णयन् ज्योतींषि नित्यमविच्छिन्नावासो मूलतो ६४ क्षेत्रेषु, विशिष्य १२ क्षेत्रेषु स्वानुगानुग्रहार्थं विशिष्य भक्तैः दरीदृश्यते I 


सोमनाथः

भारतस्य प्रतीच्यां यादसां पतेः सन्निधौ सौरष्ट्रप्रदेशसौराष्ट्रत्वप्रदः शिशुशशिशोभितशिरो गिरिशः अद्यापि स्वभक्ताभयङ्करश्शङ्करो विराजते गुर्जरप्रदेशे I  इह पुरा दक्षप्रजापतेः पुत्रीः परिणिय तासु गुणवत्तमां मोहिनीं रोहिणीमेव बहुमन्यमानं सोमं निष्प्रभत्वेन शशाप श्वशुरो दक्षःI  पुनः प्रभावाप्त्यर्थं चन्द्रस्तु अत्र  ततस्तेपे, प्रसन्नात्  नित्यञ्चात्र क्षेत्रे विहरतो महादेवादवाप्तस्वकीयप्रभः इत्थमितिहासेन “प्रभास” इति विख्यातेऽस्मिन् क्षेत्रे दिव्यं मन्दिरं निर्मापयामास I स्कन्दपुराणे इत्थं वर्णितं शिवपार्वतीसंवादे यदनादिकालादस्मिन् क्षेत्रे कल्पान्तरेष्वपि नित्यं नामपरिवर्तनेन विराजमानो महादेवश्चन्द्रसपर्ययार्पितसोमनाथनाम्ना अस्मिन् कल्पे  विराजते I इत्थं च वर्णितमस्ति स्कन्दपुराणे I 


ऐतिहासिकदृष्ट्या प्रथमतः मन्दिरनिर्माणं चालुक्यवंशीयमूलराजेन ९ शताब्द्यां कृतम्, परञ्च तरुष्कदेशीयमहम्मदगज़्नवी इति आक्रामकः मन्दिरं विनाश्य, तत्रत्यधनानि सुवर्णादिकञ्च विलुण्ट्य जगाम, ततश्च पाशुपतेन कुमारपालेन निर्मितोऽयं पुनः मन्दिरपरिसरः बहुरत्नजटितः, यतः परं १२ शताब्द्यां अल्लाउद्दीन खिल्जी इत्यपरः आक्रामकः पुनराक्रम्य पूर्ववत्सर्वं लुलुण्ट I यथैतिहासिकैरुच्यते, पुनर्निर्मितोऽयं मन्दिरो चौडसमराजेन महीपालप्रथमेन सश्रद्धं शिवलिङ्गश्च प्रतिष्ठापितः I तृतीयवारं ज़फरखानाख्यविलुण्टकः पूर्वतनीम् अख्यायिकामेव निवर्तयामास I परमयशस्विनी महाराज्ञी अहिल्या बाई होल्कर काशीविश्वनाथादिमन्दिरपुनर्निर्माणवदत्रापि असाम्ययोगदानं ददौ I स चान्ते मन्दिरपरिसरः औरन्गज़ेबादेशेन सम्पूर्णतया नाशितः I आङ्ग्लशासितसमये भारतेन गज़्नवीमृत्युस्थाने सोमनाथमन्दिरसुन्दरचन्दनकाष्ठानयनार्थं प्रार्थिताः आङ्ग्लाः सेनासम्प्रेषणेन समानयन् परं न ते मूलभूताः यतो हि न गुर्जरशिल्पस्तत्र प्रतिभातीति तत्रत्यजनानां मतम् आसीत् I गच्छता कालेन अयमालयः तत्काले “जनगढ” इति ख्याते क्षेत्रे  स्थित आसीत्, तत्प्रदेशाधिपे चापरदेशेन सह सम्बन्धस्थापनतत्परे सेनां सम्प्रेष्य तस्य देशविशेषस्य भारतेऽन्तर्भावित्वं कारितं श्रीसर्दारवल्लभभाई पटेलमहोदयैः I ततश्च मईमासे एकादशदिनाङ्के, १९५१ वर्षे भारतस्य राष्ट्रपतिभिः राजेन्द्रप्रसादवर्यैः मन्दिरस्य उद्घाटनं लिङ्गस्य प्रतिष्ठापनञ्च सोत्साहं निर्वर्तितम्I 


अस्य मन्दिरस्य विशेष्यता यदयं प्रभासतीर्थत्वेन प्रथितः श्रीमद्भागवते महाभारते, रघुवंशादिषु च महत्तीर्थत्वेन उल्लखितः I पौराणिकदृष्ट्या कपिलाहरिणान्तर्गतसरस्वतीसङ्गमस्थले स्थितऽयमालयो मृत्युञ्जयस्य I परम् अद्यतनभौगोलिकस्थितिस्तु काचिद्भिन्नैव प्रतिभाति I एवं च असङ्ख्याक्रमणपुनर्निर्माणपरम्परयाप्यापनष्टप्रभावोऽद्यापि असङ्ख्ययाचनापरान् भक्तजनान् न विमुखीकरोति करुणापरः कर्पूरगौरो गौरीनाथः I 


मल्लिकार्जुनः

कुन्देन्दुकान्तिकमनीयः कनकाचलकामिनीकान्तः श्रीशैलशिखराभ्याशे सततमपि विहरमाणोऽभ्यागतान्नातृप्तचित्तान् पुनः प्रस्थापयति करुणापरः कपाली I इदमेकमेव क्षेत्रं यत्र ज्योतिर्लिङ्गस्य मन्दिराभ्याशे एव सुतरां राजते शक्तिपीठत्वप्रथितो भ्रम्राम्बिकासन्निधिः I लोककथानुसारं उभावुमामहादेवौ स्वोभयात्मजविवाहार्थं विधानं विचिन्त्यमानौ गणेशस्य परिणयं रिद्धिसिद्धिभ्यां सम्पादयामासतुः I  परीक्षायां त्रीलोकीभ्रमणे परमागते विदितसमाचारे च कार्तिकेये क्रोधसमाकुले दक्षिणाद्रिगते च स्वात्मजे स्वामिनाथे तमनुनेतुं तत्राजगामागजायुतो गजाननतातः I तद्विज्ञायान्यत्र गन्तुमुद्युक्ते स्कन्दे, अदितिनन्दनैरनुनीतस्तत्रैव वासं मेने I एवं कनिष्ठात्मजाभ्याशे एव दक्षिणाशायां स्वमन्दिराङ्गणं सार्धाङ्गिनीकः अङ्गीचकार शङ्करः I अत्रैवमप्याख्यायिका यदरुणासुरत्रस्तत्रिदशाभ्यर्थनयावतरिता देवी भ्रामर्येव भ्रमराम्बिकास्वरूपेन सम्पूज्यते, यस्याश्चरित्रं देवीभागवते सविस्तरं वर्णितम् I अस्मिन् शक्तिपीठे देव्याः ग्रीवभागस्य पतनं पुराविद्भिरुल्लिखितम् I


यदारुणाख्यस्त्रलोक्ये महाबाधां करिष्यति ॥५२॥

 तदाहं भ्रामरं रूपं कृत्वाऽसंख्येयषट्पदम्‌ । त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्‌ ॥५२॥ 

                                                -  दुर्गा स्पतशती अध्याय ११


 इदं मन्दिरं दक्षिणावर्ते परमविख्यातकृष्णातटिनीतीरे स्वाङ्गणे एव ज्योतिर्लिङ्गं शक्तिपीठं च बिभ्रति I  एवम् अस्य क्षेत्रस्य इयं विशेष्यता यदत्र शिवशक्तिसंयोगस्य सुन्दरं चित्रं प्रस्तुततमस्ति I अत्र मल्लिकावद्गौरगात्रो नीलकण्ठो राजते तथा च भ्रमराम्बिकापि भ्रमरमण्डितत्वात् कालिकारूपत्वाद्वा कुवलयच्छविचारुदेहा विराजते I तथा च यथा भ्रमराः कुन्दं प्रत्याकर्षिताः, इत्थं मल्लिकार्जुनं प्रति नित्यमनुरक्ता तन्मुखसुधापायिनी राजते अम्बा I 

महाकालः

स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यन्ति देवाः

यश्चित्ते सम्प्रविष्टोऽप्यवहितमनसां ध्यानयुक्तात्मनां च I

लोकानामादिदेवः स जयतु भगवाञ्छ्रीमहाकालनामा

विभ्राणः सोमलेखामहिवलययुतं व्यक्तलिङ्गं कपालम् II

  • स्कन्दपुराणम्


कालकालत्वेन प्रथितः मार्कण्डेयवरदः सदाशिवः अवन्तीक्षेत्रमण्डले महाकालवनमिदं प्रविष्टः तत्रैव प्रसादितान्तःकरणो  नित्यं निवासमङ्गीचकार इति स्कन्दपुराणे उल्लिख्यते I नित्यमेव इहाङ्गीकृते निवासे दिगम्बरेण, इयं मही मूलस्थितिर्मातृकाणां, जन्मस्थली मङ्गलस्य, निधानं मङ्गलानां, यतो ह्यत्र शिप्रापावनापःपवनपूतदिगन्तोऽन्तकान्तकः कालकालस्समहाकालीको महाकालो विलसति I पुरा चन्द्रसेनाख्यश्चन्द्रशेखरपदनखचन्द्रार्चकः शिखराख्यं कृषककुमारं परममाहेश्वरं मन्दिरात्स्वरक्षकैर्बहिष्कृतं न वेद I स च सीम्नि विचरन् शिखरः रिप्वाक्रामणमवजगाम, रिपुदमनसिंहादित्याभ्याम् ईर्ष्यितोज्जयिनीनृपाभ्याम् I विधिलब्धवरेण दूषणाख्यासुरसाह्येन आक्रम्य जिग्यतुरुज्जयिनीम् तौ नृपौ I तदावगतसमाचारः सानुगो गङ्गाधरमेव सभक्तिश्रद्धं समाधानाय आराधयामास चन्द्रसेनः I तत्काले चावगत्य अरिध्वजिनीसमाचारं वृद्ध्याख्यपण्डितं न्यवेदयत् कृषककुमारः I स्वभक्तापदां द्रष्टुमशक्नुवन् तत्रैव आविर्भूतो विनाश्य रिपुवाहिनीं, स्वानुगानुग्रहार्थं तत्रैव महाकालाख्यः स्वाधीनीकुर्वन् कालचक्रमत्र विराजते महादेवः I 


अस्य मन्दिरस्य कलियुगे मूलनिर्माणं कुमारसेनेन कारितं, परं  १२ शताब्द्यां इल्टुमिश इत्याक्रामकेण मन्दिरं विध्वस्तं, तथा च मूललिङ्गः प्राक्षिप्तः पार्श्वस्थकोटितीर्थकुण्डे, तथा चोरीकृत्यापनीतः जलाधारी I परं पुनः अस्य ध्वंसनं जल्लाउद्दीन, अल्लाउद्दीन खिल्जी इत्येताभ्यां साधितं, परमस्य सुन्दरं पुनर्निर्माणं माहाराष्ट्राधिपतिना रामचन्द्रसुक्थङ्कारेण सम्पादितम् इत्येतस्य ऐतिहासिकी कथा I


त्र्यम्बकेश्वरः

गोदावरीतीरे महाराष्ट्रस्य नाशिकक्षेत्रे विराजमानः, पुरा कमलसम्भवात्मजो गौतमो नित्यं तपस्तत्परो भगवतो यादसांपतेः प्रसादात्प्रापाक्षयापःसरः I ततः कदाचित् प्रचलति दुर्भिक्षे तत्क्षेत्रस्थप्रजाः स्वतपोवनापस्सरसः जलाधाराधारेण पुपोष प्रतिदिनम् I तद्वीक्ष्य जातमत्सरैर्न्यैस्तपस्विनः गौतमतपोऽन्तरायकरणाय सकलविघ्नहरं गिरिजात्मजमराधयामासुः I प्रसादितस्तैरवगततद्दुर्भावोऽपि गौतमतपःपवित्रताप्रदर्शनार्थम् अन्तरायोत्पादनायानुमेने गणाध्यक्षः I ततश्च सम्प्रेषितासन्नमृत्युर्गौः गौतमतपोवने I स्वतपोवने विचरन्ती गावं गौतमो मृदतया निवारयितुमापेदे यदैव, तदैव विघ्नेशसंरचनया तत्र गौतमसंस्पर्शं प्राप्यैव पञ्चत्वं जगाम सा धेनुः I तद्दृश्यं वीक्षमाणस्तपस्विगणो गौतममेव गौहत्यापापेन कलङ्कयामासुः I स्वयमनघोऽपि तद्वचः स्वीकुर्वन् सकलांहस्संहारार्थं सकलकलानाथशिरसं समाराध्य तज्जटोल्लासिन्यां पापापहारिण्यां मन्दाकिन्यां सस्नौ, ममार्ज च स्वस्मिन्नारोपितं कलङ्कजालम् I ततश्च वरेण प्रच्छन्दितश्चन्द्रचूडेन तामेव सुरनदीं स्वक्षेत्रे वव्रे I सा तु स्रोतस्वती मात्सर्यान्धजनबहुलक्षेत्रे स्वाविर्भावं न चकमे I ततः पश्चात्तापतप्यमानस्तपस्विपरिवारः गौतमं चरणस्पर्शपूर्वकं याचयामासुः क्षमां चकमिरे च स्वाघमार्जनार्थं स्वर्धुनीम् I नूनं करुणापरा हि साधवः, एवं तेषां तपस्विवर्याणां दशां वीक्ष्य दयामयो महादेवं सश्रद्धमराधयामास गौतमः I स च सन्तुष्टः परमतपसा गौतमस्य, ददौ त्रिलोचनस्त्रिपथगां, तत्रैव च त्रिलोकेश्वरस्त्र्यम्बकस्वरूपेण स्वनित्यवासत्वेन तत्स्थलं समर्हयामास I 


त्र्यम्बकेश्वरमन्दिरस्य इयं विशेष्यता यत् मूललिङ्गपीठः पातालगतः तथा च लिङ्गस्य त्रीणि मुखानि दृश्यन्ते, तानि च ब्रह्मविष्णुशिवस्वरूपाणि वर्तन्ते यत्र च शिवात्मकमुखस्योपरि गोदावरीजलधारा प्रवहति I मन्दिरात्पृष्ठभागे प्रतिष्ठितेभ्यः ब्रह्मगिरिभ्यः प्रवहन्ती गोदावरी किञ्चिदन्तर्धानरूपेण मन्दिराभ्याशे एव प्रवहन्ती गुप्तरूपेण तत्र  शिवात्मकलिङ्गस्योपरि पुनः जलधारारूपेण दृश्यते I ततश्च मन्दिरपार्श्व एव प्रवहन्ती श्रीगोदावरी लोकान् पुनाति I एवं महामहिममण्डितोऽयं मन्दिरपरिसरः, यः श्रीचक्राकारकत्वेन विराजते I 


रामेश्वरः

सर्वतीर्थनिकरे समुद्रतीरे सूर्यकुलकमलसंज्ञानाथसुप्रभः प्रभुः रामचन्द्रः मृदो लिङ्गं निर्मीय सम्पूजयामास शशिशेखरम् I परममाहेश्वरं दशाननं निहन्तुकामः सेतुबन्धनिर्माणप्रक्रियायां, स्वयं सुग्रीवानुमन्त्रितमन्त्रप्रवीणैः पण्डितैः प्रपूजयामास I कासुचित् लोककथासु रावणवधानन्तरं ब्रह्महत्यापापेन खिन्नः पूजार्थमुपविष्टः लिङ्गानयनाय प्रेषिते विलम्बमाने हनूमति, जानकी मृदा लिङ्गं निर्मापयामास यस्य प्रतिष्ठापनं तदनु पूजनञ्च रामचन्द्रेण कारितम् I ततो हनुमतानीतो लिङ्गश्च तत्पार्श्वे एव प्रतिष्ठापितः, एवं अत्र विश्वेशवरः हनुमतानीतः तथा रामेश्वरः श्रीरामनिर्मितः इति गर्भगृहे द्वौ लिङ्गौ इति प्रथितम् I 

परं, रामचरितमानसानुसारं तु रावणविजयात्पूर्वमेव रामेश्वरः प्रतिष्ठापितः I तथा च गङ्गास्नानेन रामेश्वरदर्शनेन च सायुज्यमुक्तेः वैकुण्ठवासस्य फलं स्वयं श्रीरामचन्द्रेण तत्र निर्दिष्टमस्ति I एवं दिव्यमिदं लिङ्गं यत्स्वयं लोकत्रयेशेन रघुनाथेन स्वकरकमलाभ्यां प्रतिष्ठापितः I 


अस्य लिङ्गस्यास्यामख्यायिकायां विशिष्य विद्वज्जनहृदयाह्लादि स्वारस्यं रहस्यमयं तिष्ठति I “रामेश्वर” इति नाम्नि निहितमस्तीदं स्वारस्यं यत्र व्याख्याभेदो हरिहरयोर्विभाति I प्रभुश्रीरामस्य व्याख्येयं - रामस्य ईश्वरः = रामेश्वरः I अर्थात्, यः रामस्य प्रभुः, स एव रामेश्वरः I परमेतत्सर्वं प्रत्यक्षीकुर्वन् गिरीशो गिरिजां प्रति कञ्चिदन्यार्थमेव व्याख्यायत् यथा रामः ईश्वरः यस्य सः रामेश्वर इति, अत्रैवं सारांशः “रामः यस्य ईश्वरः” स एव रामेश्वरः इति I 


अस्य मन्दिरस्य निर्माणं द्राविडशिल्पकलायाः बहुप्रथितोदाहरणत्वेन विराजते I अस्मिन् परिसरे २२ गोपुराणि सन्ति, यस्मिन् बहुविधदेवतोत्कीर्णानि पश्यतां मनांस्याकर्षयन्ति, तथा च राजगोपुरं नाम्ना ख्याते सर्वोच्चगोपुरं तु ५३ मानयुक्तं बहुधा सुप्रसिद्धं तस्मिन् क्षेत्रे I तथा च दक्षिणस्यां दिशि स्थितेषु यथान्यप्रसिद्धमन्दिरेषु तथा स्तम्भेष्वपि अतिसुन्दरोत्कीर्णानि तथा चान्यप्रकारादिषु च अत्यद्भुता शिल्पकला दरीदृश्यते I तथा चास्मिन् मन्दिरे बहूनि कुण्डानि कल्पितानि सन्ति, येषु अग्नितीर्थं प्राधान्यं भजते I 


नागेशः

नगावेष्टितो नगजाकान्तो दारुकाकाननप्रदेशे व्यवस्थितो नित्यं स्वकरुणया भक्तशोककोकरविकिरणनिकरः गुर्जरेषु गुप्तः भृशं विभाति I पुरा दारुकाख्योऽसुरो लब्धवरस्त्रिलोकीं त्रासयामास I उच्यते च यद्दारुकाख्यदानवस्य दाराः दारुकाख्या दुर्गानुग्रहेण दुर्लङ्घ्यबला तद्वनमधतिष्ठत् I भीतो दण्ड्भयात् पत्न्याः प्रभावेण दारुकस्तद्वनं वारिधिमध्ये प्रातिष्ठापयत्, अपजहार देववन्दकान् बन्दीचकार च I त्रस्तेषु त्रिदशार्चकेष्वन्यतमो भक्तशिरोमणिर्धूर्जटेस्तमेव तमेव शरण्यं शरणं ययौ, उपदिदेश च सहबन्धकीकृतान् तथैवाचरितुम् I स्वायत्तचित्तानामीदृशीं दशामवलोकितुम् अशकन् शङ्करो न्यषूदयद्दैत्यं दारुकाख्यं तदधिष्ठिते दारुकाकानन एव चकमे स्थातुम् I  ततः प्रभृति सौराष्ट्रानतिदूरे एव गुर्जरमहिमानं प्रथयन् तत्रैव तस्थौ कृत्तिवासाः I 


नागेशमन्दिरपरिसरः बहुपुरातनः तथा मधकाले एव निर्मितः, तस्य पुनः परिष्कारपूर्वकं बहुशो निर्माणं जातम्, गर्भगृहे मुख्यविग्रहः दक्षिणाभिमुखो राजते यस्य पूर्वस्यां दिशि च गोमुखी स्थापिता वर्तते इति मन्दिरनिर्माणविशेषाः I 


भीमाशङ्करः

महाराष्ट्रस्य दुर्गमारण्यानीषु प्रकृतिसौन्दर्यपराकाष्ठासु मध्ये विराजितेषु सह्यगिरिषु गिरिशो डाकिन्याख्यनदीतटमलङ्कुर्वन् डाकिन्यादिदुष्टभयङ्करोऽभयङ्काङ्क्षमाणः स्वानुरक्तानां भाक्तानां नित्यमध्यास्ते I पुरा लब्धवरात्त्रिलोककृतस्त्रिप्रत्त्रस्तैस्त्रिदशैरभ्यर्हितः श्रीमहादेवोऽत्र तं सञ्जहारेति मन्यन्ते पुराविदः I त्रिपुरेणाधिकृतां त्रिलोकीञ्च पुनर्देवेन्द्राय प्रत्याहरत् I ततश्च नित्यमेव देवैः प्रार्थितः अभयाय भक्तानां विनाशाय च दुष्टानां तत्रैव वासमङ्गीचकार I ततश्च सा डाकिनी नदी भीमेत्याख्यया अस्या आख्यायिकाया आधारेण भूषिता बभूब  I 


अस्य मन्दिरस्य निर्माणं “नागरा” शिल्पानुसारं कृतमस्ति, विशिष्य हेमद्पन्थिशिल्प्कलात्र प्रतिभाति I अत्र गर्भगृहे विशिष्य अन्तरालस्य मध्ये एव स्थितः , तथा च गर्भगृहनिर्माणकला जैनमन्दिरवत्प्रतिभाति, स्तम्भेषु च विग्रहशिल्पे अप्रतिमा प्रतिभाअ प्रतिभाति I १८ शताब्द्याः नाना फण्डवीस महाराजेन शिखरो सभामण्डपश्च निर्मितः पूर्वतनमन्दिराधारेण इति  प्रतीयते I सनातनहृदयसम्राजा छत्रपतिशिवाजिवर्यैः च मन्दिरे उत्सवार्थं प्राव्धानं कृतमासीत् इत्यपि अवगम्यते I 


केदारेश्वरः 

हिमकरकिरणशीतलहिमनिबिडहिमालयेषु विराजमानः महादेवः नूनं परमकौतुकपूर्णः, यस्य मन्दिरं प्रबलप्रकृत्यापि न नाशितः जलवेगश्च स्तम्भितः पाषाणेन I अक्षयतृतीयातः ६ मासेभ्यः भक्तेभ्यः तत्र दर्शनं ददत्तल्लिङ्गं शिशिरसमये अपोह्यतेऽन्यधाम्नि तथा च रक्ष्यते शिवधाम कालभैरवेण I पुरा महाप्रस्थानं प्रस्थितैः स्वजनहननपातकतापितैः पाण्डवैर्न्विष्यमाणः मधेमार्गं वृषभरूपं दधौ I गुप्तकाशीं प्राप्तः सदृशपशुष्वन्तर्दधौ लीलाधारी, ततश्ह भीमो भीमाकारेण भीषयामास यदा पशुसङ्घमविचलमेव महेशं मन्यमानः तमनुधावन् तं गृहीतुमधावत्तदैवान्तर्दधौ गर्ते स वृषभराजः परं भीमगृहीताङ्गानि पञ्चकेदारक्षेत्रत्वेन प्रतिष्ठिताः I यत्र ककुत्केदारनाथे, भुजौ तुङ्गनाथे, रुद्रनाथे मुखं, नाभिर्मधमेश्वरे, तथा केशाः कल्पेश्वरे, कण्ठश्च केदारकण्ठपर्वते I तत्र केदारनाथः ज्योतिर्लिङ्गत्वेन प्रपूज्यते I तथा चास्य मन्दिरस्य शिल्पकला शिलाभिर्हिमालयकिरातवदेव प्रतिभाति, परमत्र मन्दाकिनीतटे स्थितस्य २०१३ जलप्लावनेन एतत् धाम ररक्ष स्वयं कालभैरवप्रभाववान् पाषाणविशेषः I अस्य धाम्नः इयमपि विशेष्यता यदादिशङ्कराचार्यैः अत्र समाधौ प्रवेशः स्वीकृतः, अनेनैवे अस्य स्थलस्यालौकिकः प्रभावः प्रत्यक्षीकर्तुं शक्यः I


वैद्यनाथः

सम्पूर्णजगति दुस्साध्यतमभवरोगभिषक्तमो वैद्यनाथो देवगृहाख्यक्षेत्रं तीर्थीकुर्वन्नद्यतनझारखण्ड्क्षेत्रे अखण्ड्वैभवो नातिदूरे महाविद्यया छिन्नमस्तया क्षपितसमस्तदुरितक्षयो सभक्तिश्रद्धं जनतयाहर्निशमर्च्यते I लोककथानुसारं पुरा लोकरावणो रावणः आराध्य गौर्यर्धं महादेवं अप्राप्ततद्दर्शनः स्वानि शिरांसि अग्नौ होतुं तत्प्रोऽभूत् I होतुं प्रवृत्ते दशमे मस्तिष्के दशाननस्य तां दशां दृष्ट्वा धूर्जटिर्दयापरः आविर्भूय आत्मेप्सितं वरं प्रष्टुं प्रेरयामास तम् I वरेण च्छन्दितः स्वच्छन्दकारी कैकसेयस्तु सकलकामनापूर्तिलिङ्गमेव चकमे I सुलभप्रसन्नः शशिशेखरस्तु तथास्त्विति त्वरितं ददौ परमिदमप्याह यन्मध्येमार्गं क्वचित्स्थापिते लिङ्गे तदेव तस्यानन्तं धाम स्यात् I यथोक्तरीत्या देवगृहसमीपे सन्ध्यामुपासितुं प्रवृत्ते दशकन्धरे लोकधुरन्धरो नारायणो गोपवेषेऽभ्यागतो तल्लिङ्गं रावणस्य सूर्यवन्दननियमसमाप्तिपर्यन्तं स्वकोमलकरकमलाभ्यां धर्तुमङ्गीचकार I तत्र विलम्बमाने मानधने दशानने तल्लिङ्गं तत्रैव भूमौ स्थापयित्वा गतः I प्रत्यागतो लङ्काधिपतिस्तु बहुधा यत्नमास्थितोऽपि असफल एव पुनः स्वराज्यं प्रत्येवागमत् I ततः प्रभृति सकलकामनापूरणो विराजते भवरोगहरो वैद्यनाथः I 


अद्यतनमन्दिरपरिसरस्य निर्माणं राज्ञा पुराणमाल निर्मितमिति विदुषां मतम्, परमत्र उपान्तिकगुप्तकालशिल्पकला विलक्ष्यते, १८ शताब्द्यां गिद्धौरनृपतिभिः अस्य मन्दिरस्य विस्तारीकरणाय यत्नाः आस्थिताः I अत्र आश्चर्यस्य अयं विषयः यत् आङ्लशासनकाले अपि निरीक्षकेन मुख्यपण्डितस्य हस्ते एव मन्दिरस्य सम्पूर्णः अधिकारः समर्पितः आसीत्, एवं नित्यमुक्तमिदं मन्दिरम् I अत्र शिल्पे कलिङ्गनागररीतिर्लक्ष्यते तथा च शिखरे शिलोत्कीर्णानामलौकिकी सुन्दरता प्रतिभाति I प्रतिश्रावणमासं काँवडयात्रिभिः गङ्गाजलमानीय प्रसाद्यते महादेवस्तथा च श्रावणमधिकृत्य श्रावणकुण्डमपि निर्मितमस्ति मन्दिरपरिसरे I तथा च विशिष्य मन्दिरे पञ्चशूलस्थापना, तथा नवरात्रोत्सवे एकवारं प्रतिसंवत्सरमुद्घाट्यमानं सभामण्डपञ्च अस्य महिमानमभिव्यनक्ति I 

घृष्णेशः

महाराष्ट्रस्य सुप्रसिद्ध “एलोरा” गुहानिकटे विराजमानो दयानाथ इत्युपाधिभूषितः अयं महादेवावतारः I लोककथानुसारं सुधर्माख्यब्राह्मणः स्वधर्मपत्न्या सुदेहाख्यया सुखमवात्सीत् I सकलसुखसुविधासत्त्वेऽपि अनपत्यखेददुःखितौ तौ दम्पती नात्मानं पूर्णं मेनाते I ज्यौतिषीरीत्या सुदेहायामप्त्यस्मभावनाभावे सा पतिं स्वानुजापरिणयार्थं नितान्तमनुदत् I विधिना प्रेरितः स विप्रोऽपि तां घुष्माख्यां परमभक्तां सदाशिवस्य यथाविधि परिणीय तया सह पुत्ररत्नमवाप I ततः गच्छत्सु दिवसेषु सोऽपि कुमारः सितपक्षे कलानाथ इव प्रतिदिनं ववृधे I परं नूनं दुर्विबोध्यैव गतिर्विधेः I सापत्न्येर्ष्याग्रस्ता सुदेहा तु तत्कुमारनिधने एव मनो दधौ I ततश्च कदाचित् सम्पन्नो विवाहस्तस्य कुमारस्य, प्राप्तावसरा च सुदेहा रात्रौ सुषुप्तं तं घातयामास तद्देहं च पार्श्वस्थसरोवरे प्राक्षिपत् यत्र मृल्लिङ्गस्य विसर्जनं अकारि घुष्णया प्रतिदिनम् I प्रातः रुदतोः पतिपुत्रवध्वोः घुष्णा तु भक्त्या तमेव मृत्य्ञ्जयमाराध्य यथाविधि मृल्लिङ्गं तत्सरसि विसर्जयितुं गता, अकस्मात्ततः प्रत्यागतं स्वात्मजं मृतोत्थितं ददर्श I ततः आविर्भूतेन महादेवेन वरेण छन्दितः स्वभगिन्याः पापमार्जनं, शूलिनश्च तस्मिन् परिसरे एव नित्यं वासं चकमे I एवञ्च ततःप्रभृति तत्क्षेत्रमलन्क़रोति शोकापनुदः स्वाश्रितानामद्यापि नीलकण्ठः I 


अस्य मन्दिरस्य शिल्पे इयं विशेष्यता यत् सम्पूर्णशिल्पकल्पः नीलशिलया एव कल्पितः, तथा च नागरशिल्पकलाप्रयोगः दृश्यते, विशिष्य हेमद्पन्थिशिल्पविद्या विभासते I मूलभूतमन्दिरस्य तु बहुधा आक्रमणैः भङ्गः १3१४ शताब्द्योः मध्ये सम्पन्नः, श्रीछत्रपतिशिवाजीमहाराजवर्याणां पितामहपादाः मालौजि भोसले १६ शताब्द्याम् अस्य मन्दिरस्य पुनर्निर्माणं चक्रुः तथाद्यतनमन्दिरस्य प्रारूपं तु अन्ते महारज्ञी गौतमी बाई होल्कर इति महाभागाभिर्निर्मितमस्ति I 


विश्वेशः

भूमिष्ठापि न यात्र भूस्रिदिवतोऽप्युच्चैरधःस्थापि या

या बद्धा भुवि मुक्तिदा स्युरमृतं यस्यां मृता जन्तवः I

या नित्यं त्रिजगत्पवित्रतटिनी तीरे सुरैः सेव्यते

सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत् II

  • स्कन्दपुराणम्


महादेवस्य त्रिशूलोपरि संस्थिता नगरीयं वलभी मोक्षप्रसादस्य, आवाहनं महादेवप्रसादस्य, स्वर्गः साधकेभ्यः, विलासस्थली धूर्जटिजटाजूटललितकल्लोलिनीललाम्नः, ज्ञानवापी सकलशास्त्रार्थस्य, पूर्णानुग्रहभाजनमन्नपूर्णायाः, स्वनगरी समग्रविश्वेऽपि विश्वेशरस्य वाराणसीत्याख्येयं दिव्यनगरी यत्र मृतिर्जनतानां रामनामोपदेशप्रदानेन सार्थकीक्रियते परमकारुणिकेन कालिकानाथेन I उच्यते हि नेयं नगरी सृज्यते न वा प्रलीयते, परं नित्यमवस्थीयते त्रिशूलाग्रे त्रिलोचनस्य I उच्यते एवं पुराविद्भिर्यद्विहाय कैलाशान् नित्यं स्वत्वावच्छिन्ननिवास्थली शम्भोरियं काश्येव I अपरापि कथैवं यत्पुरा द्यूते जयमधिकृत्य कलहायमानौ उमामहेश्वरौ स्वकान्तया पराजितः शूली तु मुकुन्दसाह्येन पुनः स्वविजयं छलेन आससाद I ततश्च मानिन्या कदम्बवनवासिन्या मह्यामत्रैव वासो रोचितः, दुर्भिक्षे च प्रवृत्ते अत्रैव नित्यान्नदानतत्परा स्वप्रजाः पुपोष I अन्ते चास्यां लीलायां क्षुत्समाकुलेन कालकालेनाभ्यर्थिता तमपि भिक्षया प्रसादयामास अन्नपूर्णा I ततः नित्यं तत्रैव अवात्सीत्सपत्नीकः सदाशिवः I यद्यपि सन्त्य्सङ्ख्यलिङ्गानि प्रथितानि विविधपुराणकाशिरहस्येषु, ज्योतिर्लिङ्गत्वं तु विश्वेश एव भजते I 


एवं अलौकिकदिव्यमपीदं लिङ्गं बहुधाक्रमणभाग्येव बभूव I सर्वप्रथमं मुइज़्ज़ - अल - दिन - इबन -  साम इत्याक्रामकः नाशयामास मन्दिरमन्दारम्, ततः क्रमेण ध्वंसनपुनर्निर्माणप्रक्रियाः जाताः यत्र राज़ियातः मस्जिद निर्माणे अविमुक्तेश्वरमन्दिरनिकटे पुनर्विश्वेशस्य स्थापना, ततः इल्टुमिश, सिकन्दर लोदि, इत्येताभ्यां सर्वथा नाशितः मन्दिरपरिसरः I  अक्बर काले राजा मान सिंघ एतेन पुनर्निर्मितं मन्दिरं राजा तोडरमालः विस्तारीचकार यस्य पुनर्धंसः औरंगज़ेब एतेन विधंसपूर्वकं ज्ञानवापी मस्जिद निर्माणं कारितम् I मराठाधिपः मल्खार रौ होल्कर तस्य मस्जिद् परिसरस्य स्थाने पुनः मन्दिरं समकल्पयत् परं तन्न सम्भूतं अवध क्षेत्र नवाब कारणात् I तस्य स्नुषाभिः अहिल्या बाई होल्कर एताभिः मस्जिद निकटे एव अद्यतनमन्दिरस्य निर्माणं कारितम् इति सङ्क्षिप्तः काशीविश्वेशेतिहासः I अस्य शिखरः सुवर्णाच्छादितः, यस्य सुवर्णदानं महाराज रंजीत सिंघ इत्येतैः कृतमिति मान्यतास्ति I तथा च लिङं तु रजतपीठे प्रतिष्ठापितमस्ति, परन्तु मूललिङ्गं तु ज्ञानवापीसरोवरे गुप्तमिति मन्यन्ते वेदविदः I 


ओंकारेश्वरः

नर्मदातीरे सृष्टेर्मूलनिदानभूतप्रणवाकारः ओंकारेश्वरः, यस्य धाम ओंकाराकारद्वीपे नर्मदामध्ये विराजते I स्कन्दपुराणानुसारं पुरा मदान्धान्धकासुरातङ्ककम्पितायां त्रिलोक्याम्, अस्मिन् स्थल्के आविर्भूतो भूतराट् तं त्रिशूलप्रहारेण पातालगङ्गायां न्यक्षिपत्, तथा च त्रिशूलभिन्नस्थली पाताले “हाटकेशवर” इति नाम्ना प्रपूज्यते I तद्रक्तजनिताः शतशोऽसुराश्च विनाशिताः शङ्करेण इति I नर्मदातीरे मान्धात्रा तदात्मजाभ्यां मुचुकुन्दाम्बरीशाभ्यां गिरिशाराधनस्योल्लेखः ग्रन्थेषु लभ्यते I एवं मान्यतास्ति यदत्र प्रतिरात्रं मात्रा पार्वत्या सहितो  महादेवोऽत्र विश्राम्यति, द्यूतकृडानन्दे च विलसति I अस्य मन्दिरस्य इदमपि वैशिष्ट्यं यदत्र ओंकारेश्वरः अमलेश्वरः (ममलेश्वरः) इति द्विलिङ्गरूपेण तदात्मजायाः जलाभिषेकेण नित्यमुपास्यते I तथा चायमालयः भारतस्य मध्यतमस्थाने स्थित इत्यपि अस्य प्रथितो विशेषः I एवमिदमेव तत्स्थलं यत्रादिशङ्करचार्यैः स्वगुरुप्राप्तिः सञ्जाता, सा च गुहाद्यापि आध्यात्मिकज्योतींषि विकीर्णयन्ती विभाति I अयं मन्दिरपरिसरः अद्यतन मध्यप्रदेशराज्यस्य “खण्ड्वा” परिषदि स्थितः अद्याप्यसङ्ख्यैर्भक्तैः सश्रद्धमुपास्यते, परं लिङ्गस्य आकारे प्रतिदिनं ह्रासस्य लक्षणेन, केवलं पण्डिताह एव स्पर्शे आधिकारिकाः नियुक्ताः इत्यप्यवधातव्यमस्ति I 


परामरराजानां निर्माणकलैवायं मन्दिरपरिसरः ११ शतब्द्यां च निर्माणतिथिरिति ऐतिहासिकानां मतम् I परमस्य विस्तारीकरणं चौहाननृपतिभिः कृतम, ततश्च बहुधा मुग़्हल आक्रमणेन प्रणष्टे, लुम्पिते चास्मिन् मन्दिरे अस्य पुनर्निर्माणश्रेयोभागिनी गौतमी बाई होल्कर, तथा तदीयस्नुषा अहिल्या बाई होल्कर महाभागाः I


Monday, 26 January 2026

Republic Day - भारतस्य संविधानम्

भारतदेशोऽयं सम्पूर्णवैश्विकक्षेत्रे बृहत्तमलोकतान्त्रिकव्यवस्थः, अस्य देशस्य लोकतान्त्रिकसिद्धान्तानां सङ्ग्रहभूतः सर्वोपरिमान्यश्च ग्रन्थोऽयं संविधाननाम्ना प्रथितः I संविधानमित्युक्ते न्यायक्षेत्रे मूलसिद्धान्तानां सङ्ग्रहः, यदाश्रित्य देशे व्यवस्थाः प्रचाल्यन्ते I “संविधानम्” इत्यत्र “सम्” उपसर्गपूर्वकस्य “वि” पूर्वकस्य “डु धाञ् धारणपोषणयोः” इति धातोः “ल्युट्” प्रत्यये “संविधानम्” इति शब्दस्य व्युपत्तिः जायते I संविधीयते अनेन इत्यर्थे एवं श्ब्दो व्युत्पद्यते I “संविधान” इत्यस्य सम्यग्रीत्या विहितमित्यर्थः, अथवा क्रमेण संरचना, अथवा उपायः इत्यपि अर्थः व्याख्यातुं शक्यते I एवं, संविधानं भारते न्यायव्यवस्थायाः परमं प्रमाणम् I

संविधाननिर्माणपूर्वपीठिका

सर्वैर्ज्ञातमेव यत् पूर्वम् आङ्ग्लानां प्रशासनेन देशस्य सञ्चालनं क्रियते स्म, परं १९४७ वर्षे, स्वातन्त्र्यप्राप्तौ अपि परिवर्तनन्यायव्यवस्थायाः स्थापना कृता, ततः परं यदा १९५० वर्षे संविधानस्य अङ्गीकारः संसदि सञ्जातः, ततः परमेव वस्तुतः भारतस्य स्वतन्त्रतया प्रचालनमारब्धम् I १९३५ मध्ये आङ्ग्लैः कृत “भारतसर्वकारनियमः”, स्वतन्त्रतया संविधानस्य निर्माणस्य बीजभूतमासीत् I ततः भारतस्य स्वतन्त्रतासेनान्यः पूर्वमेव लोकतान्त्रिकव्यवस्थास्थापनाय दत्तचित्ताः आसन् I पश्चात् आङ्ग्लप्रशासनेनैवे भारत्स्य स्वतन्त्रसंविधानस्य आवश्यकताङ्गीकृता, तथा च १९४२ वर्षे सर्वथा स्वतन्त्रतायाः कृते प्रयत्नवतां च स्वतन्त्रतासेनान्यां चेतसि मुख्यतया संविधानस्य निर्माणे तीव्रेच्छा सम्भूता, तदनुगुणं च १९४६ वर्षे एव भारतसंविधाननिर्माणसमितेः घटनं जातम् I तथा चान्ते १९४७ वर्षानन्तरमेव १९५० वर्षे जानुअरि मासस्य २६ तिथौ संविधानस्य सफलतया अभ्युपगमः पूर्णः, यदाश्रित्यैव प्रतिवर्षं गणतन्त्रोत्सवस्याचरणं प्रतिगृहं सहर्षोल्लासं भवति I इत्थं सारांशेन संविधाननिर्माणपूर्वपीठिका निगदिता I 

 १९२८ वर्षे सर्वप्रथमं भारतसंविधानस्य मूलरूपत्वेन जवहरलालनेहरोः नेतृत्वे संरचितः सर्वराजनैतिकदलानुमतः एकः लेखविशेषः यत्र भारतस्य प्रभुत्वार्थं नूतनसंघीयराष्ट्रनिर्माणार्थं च सङ्कल्पभूतनियमान् दधौ, तत्र च विशेषेण निर्वाचनविषये, तत्र च अल्पसङ्ख्यकानां कृते आरक्षणस्यापि विषये चर्चा कृता I अस्य मूलमासीत् यदा १९१९ वर्षस्य भारतसर्वकारनियमे आङ्ग्लप्रशासनेन भारतीयजनाः मार्गप्रदर्शकत्वेन नान्तर्भाविताः, तदा १९२७ वर्षे “अन्ने बसन्ती” महोदया गणितभारतीयैर्युता अनधिकारिकसंविधाननिर्माणं चक्रे, यस्य च कानपुरे सर्वराजनीतिदलैरनुमतिः प्रदत्ता, तच्च १९२७ वर्षस्य आङ्ग्लसर्वकारेण तिरस्कृतम्, उक्तं च, यदि शक्यं, तर्हि भारतीयैः आङ्ग्लैः सह प्रायः सहमत्या संविधाननिर्माणं कार्यमिति I एतच्छ्रुत्वा स्वतन्त्रतासेनानीभिः तत्काले रचितभारतीयसंविधानस्य अनुमत्यप्रदाने, असहकारिविरोधप्रदर्शनस्य निश्चयश्च कृतः I एतद्वोरोधेन मोहम्मद अलि जिन्नाः सर्वमुसलमानदलसहितः जिन्नाचतुर्दशनियमान् मुसलमानपक्षे आविष्चकार I 

संविधानस्य निर्माणम्  

फ्रांसदेशनियमानुसारं १९४६ वर्षे ६ डिसेम्बर मासे संविधानसमितेः निर्माणं जातम् I ९ डिसेम्बर मध्ये संसद्भवनस्य मध्यकक्षायां प्रथमसम्मेलनं जातम् I तस्य प्रथमसम्बोधकः आचार्यकृपालिनीवर्यः, प्रासङ्गिकसभाध्यक्षत्वेन च सचिदानन्दसिन्हा महोदयः कार्यनिर्वहणं कारितः I ११ डिसेम्बर १९४६ मध्ये अस्य मुख्याध्यक्षत्वेन राजेन्द्रप्रसादवर्याः, उपाध्यक्षत्वेन हरेन्द्रमुखर्जी महोदयाः, सांविधानिकन्यायोपदेशकत्वेन ब.न. राउ वर्याश्च नियुक्ताः I १३ डिसेम्बर मासे ज्वहरलालनेहरुणा संविधानस्य मूलभूतसिद्धान्तानां सङ्ग्रहरूपः उद्देश्यप्रस्तावः प्रस्तुतः, यः गच्छता कालेन संविधानप्रस्तावनात्वं भेजे I २२ जानुअरि १९४७ मध्ये उद्देश्यप्रस्तावः सर्वसहमत्या स्वीकृतः, तथा भारतीयध्वजस्य च स्वीकारोऽभूत् I १५ अगस्त मासे १९४७ वर्षे भारतस्य स्वतन्त्रानन्तरं भारतस्य विभाजनानन्तरं च अगस्तमासस्यैव २९ दिनाङ्के ब.आर. अम्बेड्करस्य नेतृत्वे षड्जनानां समितेः सङ्गठनं जातम् I ते च षट् पारिषदाः – क.म. मुंशी महोदयाः, मुहम्मद सदुअल्लाः, अल्लडि कृष्णस्वामि अय्यर महाभागाः, गोपालस्वामि ऐय्यङ्गार महाभागाः तथा देवीप्रसाद खैतान महाभागाः, ब.ल. मिट्टरः च I २६ नवम्बर १९४९ मध्ये सभायां संविधानस्य स्वीकृतिर्जाता, तथा च अन्ते, २४ जानुअरि १९५० मध्ये संविधानविषये अन्तिमं सम्मेलनमभवत्, यत्र ३९५ नियमलेख - २२ भाग - ८ विस्तृतलेखमण्डितं संविधानं हस्ताक्षरितं सदस्यैः I एवं च २६ जानुअरि १९५० दिनाङ्के, भारतस्य संविधानस्य नियोगः कृतः देशसञ्चालने, अतश्च ततः प्रभृति, २६ जानुअरि गणतत्न्त्रोत्सवरूपेण जनैः सहर्षोल्लासं आचर्यते I एवं, संविधाननिर्माणार्थं द्वौ संवत्सरौ, एकादशमासाः तथा अष्टादशाहानि अपेक्षितानि, व्ययश्च चतुष्षष्टिरूप्यकाणां, ग.व मालवकारमहोदयाः लोकसभायाः प्रथमाध्यक्षत्वेन च चिताः, एवं च जातो लोकतान्त्रिकगणतान्त्रिकदेशो भारतः I

संविधानस्य निर्माणप्रक्रिया

संविधानस्य प्रारूपं तावत् ब.न. राउ महाभागैः संरचितं, तच्च अम्बेड्करनेतृत्ववन्निरीक्षणसमित्या परिष्कृत्य प्रकाशितम् I भारतसंविधाननिर्माणपूर्वं ब.न. राउ महाभागैः बुर्मादेशस्य संविधाननिर्माणे महत्त्वपूर्णसहयोगः दत्तः, तथा च यदा भारतसंविधाननिर्माणार्थम् उपदेशकत्वेन नियुक्तः, तदा तैः अमरीका, कनाडा, आइर्लाण्ड तथा यू.के. इति देशानां सुदीर्घयात्राभिः तत्तत्संविधानां सविस्तरमध्ययनं प्रचक्रे I तत्र अमरीकादेशस्य सर्वोच्चन्यायालयन्यायाधीशः (ड्यू प्रोसेस्स) इति दलनिवेशस्य निषेधं सयुक्तिकमुपपादयामास, यतः तेन न्यायव्यवस्थायामनावश्यकः भारः स्यात् I प्रत्यागतैरध्ययनानुगुणं निर्मिते संविधानप्रारूपे २४३ नियमलेखाः तथा १३ विस्तृतलेखाः सङ्कलिताः, याः परं अम्बेड्करादीनां समीक्षणसमितिषु बहुशो वादविचारानन्तरं ३९५ नियमलेखैः ८ विस्तृतलेखैश्चोपबृंहितः ग्रन्थः निर्मितः प्रकाशितश्च I संविधानस्य प्रकाशनात्प्राक् ११ सम्मेलनानि १६५ दिनेषु कृतानि I नवम्बरमासस्य २६ दिनाङ्के यदा संविधानस्य अभ्युपगमो जातः, तदहः साभिमानं प्रतिवर्षं श्रीनरेन्द्रमोदीमहाभागानां मार्गनिर्देशानुसारं २०१५ वर्षानन्तरं “संविधानदिवसः” इति नाम्ना भारतीयप्रजाभिराचर्यते I अस्याः समितेः अन्तिमसम्मेलने यत् २४ जानुअरि १९५० वर्षे आसीत्, सर्वैरपि २८४ सदस्यैः एकस्मिन् संविधानप्रतिनिधौ आङ्ग्लभाषायाम् अपरस्मिन् च प्रतिनिधौ हिन्दीभाषायां हस्ताक्षराः दत्ताः I संविधानस्य मूलः प्रतिनिधिः वङ्गदेशात् शान्तिनिकेतनात् आगतैः “राममनोहर सिन्हा” तथा “नन्दलाल बोस” प्रमुखैः कलाकारैः प्रतिपुटमलङ्कृतः I अस्य सुन्दरलिपिकरणं प्रेम बहैर नरैन रैज़ादा इत्याख्येन कृतमस्ति I अस्य मूलप्रतिनिधेः प्रकाशनं देहरादुन क्षेत्रे कृतं तथा चास्य भास्मलेखनं (फोटोलितोग्रफि) भारतसर्वेक्षणविभागेन कृतम् I संविधाननियोगानन्तरं च मूलसंविधाने शताधिकपरिष्काराः कृताः सन्ति I 

संविधानस्य भागाः

मूलतः, ३९५ नियमलेखाः ८ विस्तृतलेखाश्च आसन्, परमद्यतनभारतीयसंविधाने ४६७ नियमलेखाः, २२ भागाः तथा १२ विस्तृतलेखाः च सन्ति I प्रायः तत्र के के विषयाः अन्तर्भाविताः इति सिम्हावलोकनं कुर्मः I 

भागः १

लेखाः १ – ४

अस्मिन् भागे भारतस्य विविधराष्ट्रसमूहत्वेन लक्षणं, राष्ट्राणां निर्माणस्य सीमापरिवर्तनस्य च प्रावधानं दीयते|

भागः २

लेखाः ५ – ११

 

संविधाने नागरिकताविषये नियमाः, तथा च संसदि नागरिकतानियमेषु परिवर्तनस्य च प्रावधानं दीयते|

भागः ३

लेखाः १२ – ३५

 

अत्र मौलिकाधिकाराणां विस्तृतचर्चा कृता वर्तते I न्यायस्य पुरतः सर्वेषां समानता, अभिव्यक्तेः स्वतन्त्रता, विभिन्नधर्माणां स्वतन्त्रता, विद्याप्रप्तेरधिकाराः, इत्यदिविषयाः अत्र चर्चिताः I

भागः ४

लेखाः ३६ – ५१

 

अत्र राष्ट्रनीतेः चर्चाः उद्धृताः, यथा सामाजिकन्यायहितादिविषयाणां चर्चाः कृताः सन्ति I

भागः ४ अ

लेखः ५१.अ

 

राष्ट्रं प्रति मौलिककर्तव्याः अत्र सङ्गृहीताः I

भागः ५

लेखाः ५२ – १५१

 

राष्ट्रपतेः, उपराष्ट्रपतेः, मन्त्रिमण्डलस्य, संसदः, सर्वोचन्यायालयास्य, नियन्त्रकमहालेखापरीक्षकयोः च विषये नियमाः उल्लिखिताः I

भागः ६

लेखाः १५२ - २३७

राज्यपालस्य, विधायकानाम्, उच्चन्यायालयानां च विषये चर्चा I

भागः ७ 

 

 

पार्ट बी राज्यानां कृते नियमाः I

 

भागः ८

लेखाः २३९ – २४२

 

केन्द्रप्रशासितक्षेत्राणां नियमाः, देहल्याः पुदुच्चेरी क्षेत्रस्य च कृते विशेषप्रावधानानि I

भागः ९

भागः ९ अ

भागः ९ ब

लेखाः २४३ – २४३ ओ

लेखाः २४३ पी – २४३ ज़ेड जी

लेखाः २४३ ज़ेड एच – २४३ ज़ेड टि

 

पञ्चायतविषये I

नागरपालिकोपरि नियमाः I

सहकारिसमितीनां विषये चर्चा ९७ परिष्कारेण अन्तर्भाविता I

भागः १०

लेखाः २४४ – २४४ अ

अनुसूचितक्षेत्राणां जनजातीयक्षेत्राणां च प्रशासननियमाः I

भागः ११

लेखाः २४५ – २६३

 

केन्द्रप्रशासितक्षेत्राणां राज्यानां च परस्परसम्बन्धविषये I 

भागः १२

लेखाः २६४ – ३०० अ

अर्थव्यवस्था, करविभागः, सम्पत्तिः इत्यदीनां नियमाः I

भागः १३

लेखाः ३०१ -३०७

व्यापारस्य वाणिज्यस्य च नियमाः I

भागः १४ 

भागः १४ अ

लेखाः ३०८ – ३२३ 

लेखाः ३२३ अ – ३२३ ब

केन्द्रीयसेवासम्बद्धविचाराः

न्यायादिकरणविषये नियमाः

भागः १५

लेखाः ३२४ – ३२९ अ

निर्वाचननियमाः

भागः १६

लेखाः ३३० – ३४२

जातिविशेषादिभ्यः, आङ्ग्लभारतीयादीनां कृते च विशेषप्रावधानानि लिखितानि

भागः १७

लेखाः ३४३ - ३५१

राजकीयभाषाणां निर्णयः

भागः १८

लेखाः ३५२ – ३६०

आपत्कालीनप्रावधानानि

भागः १९

लेखाः ३६१ – ३६७

अन्यनियमाः

भागः २०

लेखः ३६८

संविधाने परिष्कारस्य कृते नियमाः

भागः २१

लेखाः ३६९ – ३९२

 

जम्मू-कश्मीरक्षेत्रे विशेषप्रावधानानि यत्र परिष्काराः अधुना कृताः

भागः २२

लेखाः ३९३ – ३९५

उद्धरणानि

जी एस टि विषये नियमाः अत्र उल्लिखिताः 

 

केचन मुख्यपरिष्काराः

यद्यपि संविधाने १०६ परिष्काराः जाताः तथा सर्वेषामपि प्रमुखो हेतुः स्यात्, तथापि विशिष्य वयम ५ – ६ परिष्काराणां केवलं सिम्हावलोकनं कुर्मः I 

प्रथमपरिष्कारे एव अभिव्यक्तिस्वतन्त्रतायां कानिचन नियन्त्रणानि नेहरुसर्वकारेण स्थापितानि, कारणमासीत् यत् तत्कालीनप्रधानमन्त्री विरोधिनां निरङ्कुशाभिव्यक्त्या, देशविभाजनेन अभिवर्धमानेन सामुदायिकवाक्यैश्च चिन्तितः, अतः समाजे विरोधजनकवक्तव्यस्य, अथवा हिंसाजनकवक्तव्यादीनां कृते निषेधः स्थापितः, तथा च भूमिपतित्वोत्सादननियमाः समथिताःI 

सप्तमपरिष्कारः भारते राष्ट्राणां सीमानिर्धारणे तथा पूर्वतनचतुर्विधवर्गीकरणनिष्कारणे च मुख्यतां भजते I एतेन महाराष्ट्रगुजरातराज्ययोः विभाजनं च अनुमतम्, राज्यसभायां नव्यसदस्यानां प्रवेशसम्भवत्वं च कारितं, १५३ लेखे एकः राज्यपालः एकस्मै राज्याय इति नियमे राष्ट्रपतिना एकस्य द्व्यधिकराज्येष्वपि समकाले एव राज्यपालत्वेन नियोगस्यापि प्रावधानं कृतम् I प्रतिराज्याच्च विधानसभायां प्रतिनिधित्वसङ्ख्यायां लघुराज्यहिते सङ्ख्यापरिवर्तनमपि कृतम् I

चतुर्विंशतिपरिष्कारे संविधाने यत्र कुत्रापि नियमानुसारं परिष्कारस्य प्रावधानानि दत्तानि I

द्विचतुर्विंशत्परिष्कारोऽयं आपत्कालीननियमनियोगसमये तत्कालीनप्रधानमन्त्रि – इन्दिरा - गान्धिना असंवैधानिकरीत्या भारतसंविधानप्रस्तावनायां “सामाजवादि” “धर्मनिरपेक्ष” इति द्वौ पदौ निवेशितौ, तथा च न्यायालयादिसंस्थाभ्यः अधिकाधिकाराः संसदे प्रदत्ताः तत्कालीनापत्कलीननियमलब्धशक्त्यनुरूपम् I पूर्वतननिर्वाचनवादविवादाः अनेन परिष्कारेण अयुक्तरीत्या चोपशमं नीताः I

षडशीतिपरिष्कारे ६ – १४ वर्षेभ्यः बालकेभ्यः विद्याप्राप्तिः मौलिकाधिकारत्वेन निर्दिष्टः, पूर्वतनलेखे तु ६ वर्षपर्यन्तं बालानां शिक्षणमुल्लिखितमासीत्, अत्र मुख्यतया एतदपि परिष्कृतं यत् ६ – १४ वर्षबालानां पित्रोः रक्षकस्य वा अयं मौलिककर्तव्यः यत् बालाः तद्वयसि सुयोग्यां शिक्षां प्राप्नुयुः इति I 

एकाधिकशततमपरिष्कारः जी एस टी इति करविशेषस्य प्रस्तावकः आसीत्, यत्र बहवः अप्रत्यक्षकराः एकस्मिन् एव करे अन्तर्भाविताः, अनेन करव्यवस्थायाः शृङ्खलाप्रभावः अल्पीकृतः, तथा च एकत्ववद्भारतापणव्यवस्था स्थापिता I उभेऽपि सभे जी एस् टी विषये निर्णेतुमधिकारं प्रदत्ते I

षडधिकशततमपरिष्कारे नारीणां कृते लोकसभायामेकः त्रयांशः आरक्षितः I अयं परिष्कारः बहुपूर्वकाले एव आरब्धः, २००८ वर्षे च राज्यसभायां बहुमतं प्राप्य लोकसभायां नाग्रे सर्तुमशकत् I अधुना २०२३ वर्षे नारीशक्त्यभियानरूपेण सभायां सफलतया बहुमतं प्राप्तं, परम् अस्य नियोगस्तु अग्रिमजनगणनानन्तरमेव भविष्यति I 

समाप्तिः

 इत्थं च प्रजाहिते स्वसर्वस्वं त्यक्तवतां महाराजानां पुण्यभूमौ भारतवर्षे प्रजाहिताय निर्मितेऽस्मिन् जगतो बृहत्तमे संविधाने यद्यपि बहूनां देशानां संविधानस्य सिद्धान्ताः सर्वतश्चितमध्विव भ्रमरैः स्वकोशे अन्तर्भाविताः, स्वविशदेतिहासस्य गरिमा न न्यूनीकृतः, परं रक्षितः I यद्यपि सन्ति बहवः परिवर्तनीयाः अंशाः संविधाने, क्रमेण च क्रियते एव तनुकूलं कार्यं, तथापि तत्र दोषदृष्टिरुपदातुं न शक्या, यतोऽन्ते सर्वे अल्पज्ञत्वावच्छिन्नमानवाः एव I तथापि एतादृशबृहत्तमसुन्दरतमजगत्प्रशंसनीयसंविधानस्य निर्मातृभ्यो वयं साभिमानं कृतज्ञतां प्रशास्महे I

 

 

Thursday, 1 January 2026

INS Kaudinya- जयतु भारतं

 आई.एन.एस.वी कौण्डिन्य

विषयप्रवेशः

“आई.एन.एस.वी कौण्डिन्य” इति नाम्ना प्रथितेयं नौः भारतस्य सजीवेतिहासस्य भव्यः प्रतीकः वर्तते I एकविंशतिशताब्धौ यदा आधुनिकयन्त्रैः प्रगतिशीलतन्त्रज्ञानेन च सर्वे युवानः प्रभाविताः, अस्याः नावः निर्माणं भारतस्य विशदेतिहासान्तर्गतानुपमविज्ञानवैभवं तेषां चक्षुषां पुरतः प्रकटयति | भारतीयनौसेनायां यद्यपि सन्ति शतशो नावः रिपुघातकपरमाण्वाद्यस्त्रशक्तिसुसज्जिताः चर्चां चालङ्कुर्वन्ति, व्यापारर्थं च अनेकाः नूतनतन्त्रज्ञानोपेताः नावः वैश्विकस्तरे स्पर्धन्ते, अस्याः नावः निर्माणम् अस्माकं गौरवशालीतिहासस्य आधुनिकयन्त्राद्यनपेक्षयैव समुद्रे घोरचक्रवातादिभिरविचलितनौभिरतिदूरस्थदेशैः सह व्यापारस्य विस्तरणरूपायाः विज्ञानपद्धतेः आविष्करणेन अत्यन्तं प्रमुखतां भजते | एवम् आई.एन.एस.वी कौण्डिन्य नौकेयं विश्वराजनयेन सार्धं भारतस्य पुरातनसामुद्रिकविज्ञानस्याप्याविष्कर्तास्ति |


नाम्नो विवरणम्

प्रथमं वयम् “आई.एन.एस.वी कौण्डिन्य” इति नामधेयस्यार्थवलोकनं कुर्मः | “आई.एन.एस.वी” इत्यस्य “इण्डियन् नेवल् सैलिङ्ग वेस्सेल,” अर्थात् भरतीयनौसेनातरणयन्त्रम्| कौण्डिन्यः इति भारतस्य इतिहासे नाम्नोपलब्धः प्रथमः नाविकः, यः कलिङ्गदेशात् तरन् जम्बूद्वीपस्य पूर्वदक्षिणादिशि नावा कम्बोडिया-वेट्नाम्-थाई इति देशान् प्राप्य तत्रस्थराजपुत्रीं परिणीय स्वकौशलेन नियतेन च तान् प्रदेशान् शशास |


कौण्डिन्यस्य कथा

अयं कौण्डिन्यः विक्रमोत्तरप्रथमशताब्द्यां भारतदेशस्य कलिङ्गराज्ये सुप्रसिद्धे ब्राह्मणकुले आविर्भूतः, बहुशास्त्रपारङ्गतश्च सम्बभूव |  केषाञ्चन विदुषां मतानुसारं न्यायासङ्गतव्यवहारेण अपरकारणवशाद्वा कलिङ्गान्निर्गतोऽयं दारुकाष्ठारज्ज्वादिनिर्मितनावा सानुगः वङ्गसमुद्रमुत्तीर्य आधुनिककाम्बोडियादेशप्रान्तमवाप| तत्र च सोमाख्यनागकन्यादेशकारिभिः दस्युभिराक्रान्तः स्वकुशलमत्या धर्येण च सर्वान् पराजित्य युद्धजनितक्षयां नावं तत्तीरे प्रतिष्ठाप्य सम्यक्करणार्थं प्रबलसपत्नाक्रमणमपेक्षमाणः साशङ्कस्तस्थौ | कौण्डिन्यपराक्रमहृतहृदया राजपुत्री सोमा तु तमेव भर्तारं वव्रे, विवाहार्थं प्रस्तावं च कौण्डिन्याय प्रेषयाञ्चक्रे I भृशं मोमुद्यमानः कौण्डिन्योऽयं अवसरस्य लाभं गृहाणः तां यथाविधि उदवोढ, तया सह सुखमवात्सीत् | क्रमेण च आधुनिक-काम्बोडिया-वेट्नाम्-थाई-भूखण्डान् वशीकृत्य फुनाख्यवंशप्रतिष्ठापकत्वेन सनातनधर्मनियमानुसारं शशास| तत्र च धूर्जटेर्मुररिपोश्च अनेकानि मन्दिराणि निर्माय सनातनस्य विस्तारं प्रचक्रे I अस्य नाम विविधभाषादर्शनेन भिन्नतामाधत्ते, यथा – संस्कृते हिन्दीभाषायां च “कौण्डिन्य” इति, चीनीभाषायां “हुन्टैन्” इति, ख्मेर् भाषायां च “प्रेह थोङ्ग” इति प्रथितः| समानरीत्या राजपुत्र्याः नाम – “सोमा” इति संस्कृते हिन्दीभाषायां च, ख्मेरभाषायां “नेङ्ग नेक” इति, चीनीभाषायां “लिये” इति, वेट्नमीसभाषायां च “लियु दीप” इति च वर्तते |


प्रमाणम्

अत्र प्रमाणत्वेन विश्वैतिहासिकस्थले “मै सोन” स्थले प्राप्तः एकः शिलालेखः नितरां बाभायते|  अस्यां शिलालेखायामेवमुल्लेखः लभ्यते –

तत्र स्थापितवान् शूलं कौण्डिन्यस् तद्द्विजर्षभः | अश्वत्थाम्नो द्विजश्रेष्ठाद् द्रोणपुत्राद् अवाप्य तम् ||

कुलासीद् भुजगेन्द्रकन्या सोमेति सा वंशकरी पृथिव्याम् | आश्रित्य भावेतिविशेषवस्तु यामानुषावासमुवास ||

कौण्डिन्यनाम्ना द्विजपुङ्गवेन कार्यार्थपत्नीत्वनायि यापि | भविष्य्तोऽर्थस्य निमित्तभावे विधेरचिन्त्यं खलु चेष्टितं हि ||


निर्माणम्

अस्याः नावः निर्माणकल्पनाकर्ता ड.र. सञ्जय-सान्यालमहोदयः अत्यन्तं ख्यातः अर्थशास्त्री, ऐतिहासिकः, लेखकश्च | स्वज्ञानकर्मबलेन चायं प्रधानमन्त्रिवर्यस्य अर्थशास्त्रपरामर्शकत्वेन सर्वकारे नियुक्तः | अस्य निर्माणर्थं तैः सिन्धुसरस्वतीसभ्यतायां व्यापारनौकानामुपरि संशोधनं कृतम् | यद्यपि तत्काले एव व्यापारार्थं नौकोपयोगः प्रमाणितः, परं स्पष्टतया निर्माणविधिसामग्र्यादिज्ञानं न प्राप्यते | स्पष्टतया तु मौर्यमुद्रायां मध्ये चित्रंप्रतीयते, परन्त्वस्याः नौकायाः मुख्यरूपेण निदानभूतमस्ति अजन्तागुहासु तरन्नावश्चित्रविशेषः यत्र निर्माणस्य सम्यग्रीत्या ऊहा सम्पादयितुं शक्या | निर्माणविद्यार्थं युक्तिकल्पतर्वादिप्राचीनग्रन्थानां निर्देशाः अनुसृताः | एतदाकारिका नौः प्रायः गुप्तकालीना पञ्चमशाताब्धिकेति विदुषां मतम् I अस्याः नावः इदं वैशिष्ट्यं यत् अत्र निर्माणे किमपि आधुनिकं चालकयन्त्रं नोपयुक्तमस्ति |  नौकायां दक्षिणभारततः गण्डभेरुण्ड-सिंहयालि-मुख्यमुद्राः,  सार्धमेव सिन्धुसरस्वतीसभ्यतायाम् इव नौबन्धनकीलश्च प्रयुक्तः | काष्ठाः, नारिकेलतन्तुभिः रज्जुभिश्च सीविताः, रन्ध्रनिवारणार्थं च प्राकृतिकधूणकस्योपयोगः कृतः यत्र सर्वथा जलप्रवेशोऽशक्यतां नीतः | अत्र कीलानां शून्यः प्रयोगः यतः काष्ठाः परस्परं रज्जुभिः सीवनेन सम्बद्धाः | अस्याः विचित्रकलायाः प्रवर्तकाः अद्य जगति न्यूनातिन्यूनाः एव | अनया कलया नौकानिर्माताराः बाबु-शङ्करमहोदयाः शैशवे शिक्षितसीवितनौकापरिमणाः सौभाग्येन लब्धाः, येषामविरतप्रयत्नेनैव इयं परियोजना सफलतां गता |

अस्याः नौकायाः आरम्भः सेप्टेम्बेर्मासे २०२३ वर्षे जातः, तथ्यस्य प्रत्यक्षीकरणं भारतीयनौसेनास्थपतिभिः हेमन्तकुमारमहोदयैः सम्पादितम् I|परियोजनायाः वित्तनियोगाय सांस्कृतिकमन्त्रालयः, भारतीयनौसेना, होदि इन्नोवेशंस इति त्रिभिः लिखिताङ्गीकारे हस्ताक्षराः प्रदत्ताः | आइ. आइ. टी. मद्रासतः काष्ठानां “हैड्रोदैनमिक” इत्यस्य सक्षमता प्रमाणिता | अस्य फेब्रुवरिमासे प्रकाशनं कृतं तथा नौसेनायां “आई.एन.एस.वी कौण्डिन्य” इति नाम्नान्तर्गणनापि कृता | यतः एतादृशनौकाचालनविषये न कोऽपि सप्राणः मानवः अभिज्ञः अतः बहुधा परीक्ष्यैव एतदध्येतव्यं भवेत् |


प्रथमजलयात्रा

अस्याः ऐतिहासिकनावः प्रथमजलयात्रा २०२५ वर्षे डिसेम्बर्मासस्य २९ दिनाङ्के गुजरातराज्यस्य पोर्बन्दर समुद्रपत्तनतः अधुना “ओमान” इति ख्यातम्लेच्छदेशार्थं प्रस्थितः | अयं मार्गः बहुपूर्वतनकाले यवनानां भारतीयानां च सुप्रसिद्धः व्यापारपन्था बभूव | अतः अस्य पथश्चयनं यूनां मनस्सु भारतविशदसामुद्रेकेतिहासस्य महत्ताबोधनार्थं पुनःस्वव्यक्तित्वजागरणाय च निदानात्मकं विद्यते | अपरमपि कारणं यदनेन भारतस्य ओमानदेशस्य कूटनीतिसम्बन्धः अनया यात्रया दृढः भवेत् | एतद्यात्रासफलतायामग्रिमजलायात्रा भारतात् इण्डोनेशियदेशं प्रति भविता यत्र झञ्झावातादिसहनपरीक्षा ओमानयात्रायां भविष्यति | जलयात्रायै शुभकामनाः प्रददतः प्रधानमन्त्रिवर्याः ट्विट्टर इति सन्देशप्रेषणानुप्रयोगतन्त्रांशे आङ्ग्लभाषायां अरबीभाषायां च स्वाभिप्रायान् प्राकटयन् |


उपसंहारः

भारते वामपन्थिभिः ऐतिहासिकैः छात्राः एवं हि बोधिताः यत् भारतीयाः आदितः एव आक्रान्ताः, अतः एव आर्याक्रमणादिविचाराः तैरुल्लिखिताः | तैर्बोधिताश्छात्राः स्वात्मानम् आङ्ग्लैः सुसंस्कृतं मन्यन्ते, चिन्तयन्ति यद्भारतीयराजैः समुद्रा उनुत्तीर्णाः, अन्येषामाक्रमणेन च भारतीयराजाः नतशिरसः इति | एवं सति भारते चोलानां समुद्रतरणं किञ्चिदिति एकेन वाक्येनोपसंह्रियते पाठ्यपुस्तकेषु | एवमेव “अहिंसकोऽयं देशः” इति पूर्वतननेतृणामभिप्रायवशात् च सेनायामतिमन्दा प्रगतिरासीत् | अधुना तु सुयोग्याः व्यवस्थाः तिसॄणामपि सेनानां कृते क्रियन्ते, परं भारते याः ४०८ एव नावः प्रचलमानाः सन्ति I यस्मिन् देशे समुद्रपथा अगम्यदेशाः व्यापारर्थं प्राप्ताः तस्मिन् देशे एतादृशी नौकान्यूनता तो अत्यन्तं दुःखप्रदैव | अतः पुनः सर्वेषां कृते विशिष्य समुद्रनौकानां विषये भारतीयविज्ञानाविष्करणरुपेयं परियोजना साफल्यं प्राप्तेति भृशं मोमुद्यते मे मनः एवेमेव उत्तरोत्तरमभिवृद्धिः स्यात् इति भारतस्य नागरिकरूपेण भगवन्तं प्रार्थये |


जयतु भारतं, जयतु संस्कृतम्||






ज्योतिर्लिङ्गानि- महाशिवरात्रि पर्व:

सौराष्ट्रे सोमनाथञ्च श्रीशैले मल्लिकार्जुनम् | उज्जयिन्यां महाकालमोंकारममलेश्ववरम् || परैल्यां वैद्यनाथञ्च डाकिन्यां भीमशङ्करम् | सेतुबंधे त...