Thursday, 1 January 2026

INS Kaudinya- जयतु भारतं

 आई.एन.एस.वी कौण्डिन्य

विषयप्रवेशः

“आई.एन.एस.वी कौण्डिन्य” इति नाम्ना प्रथितेयं नौः भारतस्य सजीवेतिहासस्य भव्यः प्रतीकः वर्तते I एकविंशतिशताब्धौ यदा आधुनिकयन्त्रैः प्रगतिशीलतन्त्रज्ञानेन च सर्वे युवानः प्रभाविताः, अस्याः नावः निर्माणं भारतस्य विशदेतिहासान्तर्गतानुपमविज्ञानवैभवं तेषां चक्षुषां पुरतः प्रकटयति | भारतीयनौसेनायां यद्यपि सन्ति शतशो नावः रिपुघातकपरमाण्वाद्यस्त्रशक्तिसुसज्जिताः चर्चां चालङ्कुर्वन्ति, व्यापारर्थं च अनेकाः नूतनतन्त्रज्ञानोपेताः नावः वैश्विकस्तरे स्पर्धन्ते, अस्याः नावः निर्माणम् अस्माकं गौरवशालीतिहासस्य आधुनिकयन्त्राद्यनपेक्षयैव समुद्रे घोरचक्रवातादिभिरविचलितनौभिरतिदूरस्थदेशैः सह व्यापारस्य विस्तरणरूपायाः विज्ञानपद्धतेः आविष्करणेन अत्यन्तं प्रमुखतां भजते | एवम् आई.एन.एस.वी कौण्डिन्य नौकेयं विश्वराजनयेन सार्धं भारतस्य पुरातनसामुद्रिकविज्ञानस्याप्याविष्कर्तास्ति |


नाम्नो विवरणम्

प्रथमं वयम् “आई.एन.एस.वी कौण्डिन्य” इति नामधेयस्यार्थवलोकनं कुर्मः | “आई.एन.एस.वी” इत्यस्य “इण्डियन् नेवल् सैलिङ्ग वेस्सेल,” अर्थात् भरतीयनौसेनातरणयन्त्रम्| कौण्डिन्यः इति भारतस्य इतिहासे नाम्नोपलब्धः प्रथमः नाविकः, यः कलिङ्गदेशात् तरन् जम्बूद्वीपस्य पूर्वदक्षिणादिशि नावा कम्बोडिया-वेट्नाम्-थाई इति देशान् प्राप्य तत्रस्थराजपुत्रीं परिणीय स्वकौशलेन नियतेन च तान् प्रदेशान् शशास |


कौण्डिन्यस्य कथा

अयं कौण्डिन्यः विक्रमोत्तरप्रथमशताब्द्यां भारतदेशस्य कलिङ्गराज्ये सुप्रसिद्धे ब्राह्मणकुले आविर्भूतः, बहुशास्त्रपारङ्गतश्च सम्बभूव |  केषाञ्चन विदुषां मतानुसारं न्यायासङ्गतव्यवहारेण अपरकारणवशाद्वा कलिङ्गान्निर्गतोऽयं दारुकाष्ठारज्ज्वादिनिर्मितनावा सानुगः वङ्गसमुद्रमुत्तीर्य आधुनिककाम्बोडियादेशप्रान्तमवाप| तत्र च सोमाख्यनागकन्यादेशकारिभिः दस्युभिराक्रान्तः स्वकुशलमत्या धर्येण च सर्वान् पराजित्य युद्धजनितक्षयां नावं तत्तीरे प्रतिष्ठाप्य सम्यक्करणार्थं प्रबलसपत्नाक्रमणमपेक्षमाणः साशङ्कस्तस्थौ | कौण्डिन्यपराक्रमहृतहृदया राजपुत्री सोमा तु तमेव भर्तारं वव्रे, विवाहार्थं प्रस्तावं च कौण्डिन्याय प्रेषयाञ्चक्रे I भृशं मोमुद्यमानः कौण्डिन्योऽयं अवसरस्य लाभं गृहाणः तां यथाविधि उदवोढ, तया सह सुखमवात्सीत् | क्रमेण च आधुनिक-काम्बोडिया-वेट्नाम्-थाई-भूखण्डान् वशीकृत्य फुनाख्यवंशप्रतिष्ठापकत्वेन सनातनधर्मनियमानुसारं शशास| तत्र च धूर्जटेर्मुररिपोश्च अनेकानि मन्दिराणि निर्माय सनातनस्य विस्तारं प्रचक्रे I अस्य नाम विविधभाषादर्शनेन भिन्नतामाधत्ते, यथा – संस्कृते हिन्दीभाषायां च “कौण्डिन्य” इति, चीनीभाषायां “हुन्टैन्” इति, ख्मेर् भाषायां च “प्रेह थोङ्ग” इति प्रथितः| समानरीत्या राजपुत्र्याः नाम – “सोमा” इति संस्कृते हिन्दीभाषायां च, ख्मेरभाषायां “नेङ्ग नेक” इति, चीनीभाषायां “लिये” इति, वेट्नमीसभाषायां च “लियु दीप” इति च वर्तते |


प्रमाणम्

अत्र प्रमाणत्वेन विश्वैतिहासिकस्थले “मै सोन” स्थले प्राप्तः एकः शिलालेखः नितरां बाभायते|  अस्यां शिलालेखायामेवमुल्लेखः लभ्यते –

तत्र स्थापितवान् शूलं कौण्डिन्यस् तद्द्विजर्षभः | अश्वत्थाम्नो द्विजश्रेष्ठाद् द्रोणपुत्राद् अवाप्य तम् ||

कुलासीद् भुजगेन्द्रकन्या सोमेति सा वंशकरी पृथिव्याम् | आश्रित्य भावेतिविशेषवस्तु यामानुषावासमुवास ||

कौण्डिन्यनाम्ना द्विजपुङ्गवेन कार्यार्थपत्नीत्वनायि यापि | भविष्य्तोऽर्थस्य निमित्तभावे विधेरचिन्त्यं खलु चेष्टितं हि ||


निर्माणम्

अस्याः नावः निर्माणकल्पनाकर्ता ड.र. सञ्जय-सान्यालमहोदयः अत्यन्तं ख्यातः अर्थशास्त्री, ऐतिहासिकः, लेखकश्च | स्वज्ञानकर्मबलेन चायं प्रधानमन्त्रिवर्यस्य अर्थशास्त्रपरामर्शकत्वेन सर्वकारे नियुक्तः | अस्य निर्माणर्थं तैः सिन्धुसरस्वतीसभ्यतायां व्यापारनौकानामुपरि संशोधनं कृतम् | यद्यपि तत्काले एव व्यापारार्थं नौकोपयोगः प्रमाणितः, परं स्पष्टतया निर्माणविधिसामग्र्यादिज्ञानं न प्राप्यते | स्पष्टतया तु मौर्यमुद्रायां मध्ये चित्रंप्रतीयते, परन्त्वस्याः नौकायाः मुख्यरूपेण निदानभूतमस्ति अजन्तागुहासु तरन्नावश्चित्रविशेषः यत्र निर्माणस्य सम्यग्रीत्या ऊहा सम्पादयितुं शक्या | निर्माणविद्यार्थं युक्तिकल्पतर्वादिप्राचीनग्रन्थानां निर्देशाः अनुसृताः | एतदाकारिका नौः प्रायः गुप्तकालीना पञ्चमशाताब्धिकेति विदुषां मतम् I अस्याः नावः इदं वैशिष्ट्यं यत् अत्र निर्माणे किमपि आधुनिकं चालकयन्त्रं नोपयुक्तमस्ति |  नौकायां दक्षिणभारततः गण्डभेरुण्ड-सिंहयालि-मुख्यमुद्राः,  सार्धमेव सिन्धुसरस्वतीसभ्यतायाम् इव नौबन्धनकीलश्च प्रयुक्तः | काष्ठाः, नारिकेलतन्तुभिः रज्जुभिश्च सीविताः, रन्ध्रनिवारणार्थं च प्राकृतिकधूणकस्योपयोगः कृतः यत्र सर्वथा जलप्रवेशोऽशक्यतां नीतः | अत्र कीलानां शून्यः प्रयोगः यतः काष्ठाः परस्परं रज्जुभिः सीवनेन सम्बद्धाः | अस्याः विचित्रकलायाः प्रवर्तकाः अद्य जगति न्यूनातिन्यूनाः एव | अनया कलया नौकानिर्माताराः बाबु-शङ्करमहोदयाः शैशवे शिक्षितसीवितनौकापरिमणाः सौभाग्येन लब्धाः, येषामविरतप्रयत्नेनैव इयं परियोजना सफलतां गता |

अस्याः नौकायाः आरम्भः सेप्टेम्बेर्मासे २०२३ वर्षे जातः, तथ्यस्य प्रत्यक्षीकरणं भारतीयनौसेनास्थपतिभिः हेमन्तकुमारमहोदयैः सम्पादितम् I|परियोजनायाः वित्तनियोगाय सांस्कृतिकमन्त्रालयः, भारतीयनौसेना, होदि इन्नोवेशंस इति त्रिभिः लिखिताङ्गीकारे हस्ताक्षराः प्रदत्ताः | आइ. आइ. टी. मद्रासतः काष्ठानां “हैड्रोदैनमिक” इत्यस्य सक्षमता प्रमाणिता | अस्य फेब्रुवरिमासे प्रकाशनं कृतं तथा नौसेनायां “आई.एन.एस.वी कौण्डिन्य” इति नाम्नान्तर्गणनापि कृता | यतः एतादृशनौकाचालनविषये न कोऽपि सप्राणः मानवः अभिज्ञः अतः बहुधा परीक्ष्यैव एतदध्येतव्यं भवेत् |


प्रथमजलयात्रा

अस्याः ऐतिहासिकनावः प्रथमजलयात्रा २०२५ वर्षे डिसेम्बर्मासस्य २९ दिनाङ्के गुजरातराज्यस्य पोर्बन्दर समुद्रपत्तनतः अधुना “ओमान” इति ख्यातम्लेच्छदेशार्थं प्रस्थितः | अयं मार्गः बहुपूर्वतनकाले यवनानां भारतीयानां च सुप्रसिद्धः व्यापारपन्था बभूव | अतः अस्य पथश्चयनं यूनां मनस्सु भारतविशदसामुद्रेकेतिहासस्य महत्ताबोधनार्थं पुनःस्वव्यक्तित्वजागरणाय च निदानात्मकं विद्यते | अपरमपि कारणं यदनेन भारतस्य ओमानदेशस्य कूटनीतिसम्बन्धः अनया यात्रया दृढः भवेत् | एतद्यात्रासफलतायामग्रिमजलायात्रा भारतात् इण्डोनेशियदेशं प्रति भविता यत्र झञ्झावातादिसहनपरीक्षा ओमानयात्रायां भविष्यति | जलयात्रायै शुभकामनाः प्रददतः प्रधानमन्त्रिवर्याः ट्विट्टर इति सन्देशप्रेषणानुप्रयोगतन्त्रांशे आङ्ग्लभाषायां अरबीभाषायां च स्वाभिप्रायान् प्राकटयन् |


उपसंहारः

भारते वामपन्थिभिः ऐतिहासिकैः छात्राः एवं हि बोधिताः यत् भारतीयाः आदितः एव आक्रान्ताः, अतः एव आर्याक्रमणादिविचाराः तैरुल्लिखिताः | तैर्बोधिताश्छात्राः स्वात्मानम् आङ्ग्लैः सुसंस्कृतं मन्यन्ते, चिन्तयन्ति यद्भारतीयराजैः समुद्रा उनुत्तीर्णाः, अन्येषामाक्रमणेन च भारतीयराजाः नतशिरसः इति | एवं सति भारते चोलानां समुद्रतरणं किञ्चिदिति एकेन वाक्येनोपसंह्रियते पाठ्यपुस्तकेषु | एवमेव “अहिंसकोऽयं देशः” इति पूर्वतननेतृणामभिप्रायवशात् च सेनायामतिमन्दा प्रगतिरासीत् | अधुना तु सुयोग्याः व्यवस्थाः तिसॄणामपि सेनानां कृते क्रियन्ते, परं भारते याः ४०८ एव नावः प्रचलमानाः सन्ति I यस्मिन् देशे समुद्रपथा अगम्यदेशाः व्यापारर्थं प्राप्ताः तस्मिन् देशे एतादृशी नौकान्यूनता तो अत्यन्तं दुःखप्रदैव | अतः पुनः सर्वेषां कृते विशिष्य समुद्रनौकानां विषये भारतीयविज्ञानाविष्करणरुपेयं परियोजना साफल्यं प्राप्तेति भृशं मोमुद्यते मे मनः एवेमेव उत्तरोत्तरमभिवृद्धिः स्यात् इति भारतस्य नागरिकरूपेण भगवन्तं प्रार्थये |


जयतु भारतं, जयतु संस्कृतम्||






No comments:

Post a Comment

INS Kaudinya- जयतु भारतं

  आई . एन . एस . वी   कौण्डिन्य विषयप्रवेशः “आई.एन.एस.वी कौण्डिन्य” इति नाम्ना प्रथितेयं नौः भारतस्य सजीवेतिहासस्य भव्यः प्रतीकः वर्तते I एक...